सर्वलोकान्यदीशेऽहमीशिनीभिश्च शक्तिभिः ।
ईशानमस्य जगतः स्वदृशं चक्षुरीश्वरम् ॥ ३९ ॥
ईशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ।
ईशानः सर्वविद्यानां यदीशानस्तदस्म्यहम् ॥ ४० ॥
सर्वान्भावान्निरीक्षेऽहमात्मज्ञानं निरीक्षये ।
योगं च समये यस्माद्भगवान्महतो मतः ॥ ४१ ॥
"आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिश्रुतेः । आत्मानं बिशिनष्टि-तुरीयमिति । गुणत्रयोपाधिकेभ्यो ब्रह्मादिभ्यो विलक्षणं तुरीयं ब्रह्म चतुर्थं निर्गुणमित्यर्थः । आत्मनो निजं रूपं तस्थ इत्यत्र “छन्दसि लुङ्लङ्लिटः” इति कालविशेषनिरपेक्षो लिट् ॥ ३८ ॥ सर्वलोकानिति । यद्यस्मात्कारणात् ईशयन्त्यभीक्ष्णं नियमयन्तीत्यर्थः । इतीशिन्यः । णिजन्तादाभीक्ष्ण्ये णिनिः । तादृशीभिः शक्तिभिः मायाशक्तिभिरित्यर्थः । सर्वान् लोकानीशे नियमये । तत्तस्मात्कारणादीशानोऽस्मीत्यन्वयः । अत्रार्थे श्रुतिमर्थतः पठति-ईशानमस्येति । जगतः जंगमस्य तस्थुषः स्थावरस्य च ईशानं स्वर्दृशम् । स्वःशब्दः सकललोकलक्षकः। स्वःपश्यतीति स्वर्दृक् तं स्वर्दृशम् । सर्वलोकद्रष्टारमित्यर्थः । चष्टे इति चक्षुः अभिव्यञ्जकम् । सत्ताप्रदमित्यर्थः । श्रुतिरपि "अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः” इति । हे शूर हे इन्द्रः, इन्दतीतीन्द्र, परमैश्वर्यत्वात्त्वां अभिनोनुमः अतिशयेन स्तुमः । कथंभूता वयम् । अदुग्धा धेनव इव त्वदभिषेकार्थं क्षीरपात्रशालिन इत्यर्थ: । उत्तरार्धं व्याख्यातम् ॥ ३९ ॥ एवमृचमर्थतः पठित्वा यजुरर्थतः पठति--ईशान इति । "ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्” इत्यादियाजुषेऽपि । यद्यस्मात्कारणाच्छ्रुतिद्वयमीशानं प्रतिपादयति तस्मादीशानोऽहमिति भावः ॥ ४० ॥ सर्वानिति । यं--