पुटमेतत् सुपुष्टितम्



५७
बालानन्दिनीव्याख्यासहिता ।

 
अजस्रं यच्च गृह्णामि विसृजामि सृजामि च ।
सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥ ४२ ॥
महत्स्वात्मज्ञानयोगैरैश्वर्यैस्तु महीयते ।
सर्वान्भावान्महादेवः सृजत्यवति सोऽस्म्यहम् ॥ ४३ ॥
एषोऽस्मि देवः प्रदिशोऽपि सर्वाः
पूर्वो हि जातोऽस्म्यहमेव गर्भे।
अहं हि जातश्च जनिष्यमाणः
प्रत्यग्जनास्तिष्ठति सर्वतोमुखः ॥ ४४ ॥


स्मात्कारणात् सर्वानतीतानागतभूतान् भावान् पदार्थान्निरीक्षे पश्यामि तथा महतः महापुरुषान्। साधनसंपन्नानिति यावत् । आत्मज्ञानं आत्मसाक्षात्कारसाधनं । योगम् ज्ञानयोगमित्यर्थः । निरीक्षये बोधयामि । तथा सम्यक् अये गच्छामि । सर्वं व्याप्नोमीत्यर्थः । अतः कारणादहं भगवान्मतः । "भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः । तथाच माहात्म्यवाची भगशब्दस्तद्वानहम् । माहात्म्यं तूक्तमेव ॥ ४१ ॥ अजस्रमिति । एकएव यतो लोकानित्यस्मिन् श्लोके उक्त एवार्थोऽत्राभ्यासार्थं पुनरुक्त इत्यपौनरुक्त्यम् ॥ ४२ ॥ महत्स्विति । महान्तो ब्रह्मादयस्तेषु मध्ये सोऽहं महादेव इति संबन्धः । स क इत्याकाङ्क्षायां य इत्यध्याहृत्य यो देव आत्मज्ञानं च योगाश्च तैर्महीयते पूजां प्राप्रोति ऐश्वर्यैश्च महीयते । यः सर्वान् भावान् सृजति अवति स महादेवोऽहमेव नान्य इति भावः ॥ ४३ ॥ महत्त्वमेव द्रढयति--एषोऽस्मीति ।। एषो हि देवः प्रदिशो नु सर्वाः” इति श्रुतिमर्थतः पठति । अहमेव श्रुत्युक्तो देवस्तिष्ठति स देवोऽस्मि । सर्वाः प्रदिशोऽपि अस्मि सर्वत्रास्मीत्यर्थः । "अकर्मकधातुभिर्योगे देशः कालो गन्तव्योऽध्वा च कर्मसंज्ञकः' -इति कर्मत्वम् । पूर्वो जातः अतीत इत्यर्थः । तथा गर्भे जातोऽह-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/60&oldid=298902" इत्यस्माद् प्रतिप्राप्तम्