विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् ।
संबाहुभ्यां धमति संपतत्रै-
र्द्यावाभूमी जनयन्देव एकः ॥ ४५ ॥
वालाग्रमात्रं हृदयस्य मध्ये
विश्वेदेवं जातवेदं वरेण्यम् ॥
मामात्मस्थं येऽनुपशयन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४६ ॥
मेव । तथा जातः गर्भाद्बहिर्निर्गतश्च जनिष्यमाण उत्पत्स्यमानश्चाहमेव । किंच सर्वे जना अयमेव । अतएव सर्वतोमुखः । इति सोपाधिकं स्वरूपमुक्त्वा निरुपाधिकमाह--प्रत्यगिति। अविद्यातत्कार्येभ्यः प्रातिकूल्येन सत्यज्ञानानन्दतयाञ्चति प्रकाशत इति प्रत्यक् । विवर्ताधिष्ठानमात्रामित्यर्थः ॥ ४४ ॥ अस्मिन्नर्थे दार्ढ्याय श्रुत्यन्तरमर्थतः पठति—विश्वत इति । विश्वतादात्म्यापन्नत्वात्सर्वचक्षुः सर्वमुखः सर्वबाहुः सर्वपाद इत्युच्यते। बाहुभ्यां तथा पतत्रैर्गमनशीलै: पादैरित्यर्थः । अत्र पाणिपादस्थानापन्नैर्ज्ञानाज्ञानधर्माधर्मादिभिरित्यर्थः । दिवं च पृथिवी च धमति प्रेरयति । किं कुर्वन्। द्यावाभूमी जनयन्सृजन् । तथापि देव एक एव सृष्टेर्मायिकत्वादिति भावः ॥ ४५ ॥ वालाग्रेति । धियं बुद्धिमीरयन्तीति धीराः कुशला ये पुंरुषाः मां आत्मस्थं बुद्धिस्थं अनुपश्यन्ति श्रवणादिसाधनमनुसृत्य पश्यन्ति साक्षात्कुर्वन्तीत्यर्थः । तेषां जीवेशाभेदसाक्षात्कारवतां शाश्वती शान्तिर्मोक्षसुखमाविर्भवति इतरेषां भेददर्शिनां न । कीदृशं जीवम् । वालाग्रमात्रं केशाग्रप्रमाणं स्वरूपेण व्यापकत्वेऽपि औपा-