पुटमेतत् सुपुष्टितम्



५९
बालानन्दिनीव्याख्यासहिता ।

 
अहं योनिमधितिष्ठामि चैको
मयेदं पूर्णं पञ्चविधं च सर्वम् ॥
मामीशानं पुरुषं देवमित्थं
विचार्यमाणं शान्तिमत्यन्तमेति ॥ ४७ ॥
प्राणेष्वन्तर्मनसो लिङ्गमाहु-
र्यस्मिन्नशनाया च तृष्णा क्षमा च ।
तृष्णां छित्त्वा हेतुजालस्य मूलं
बुद्ध्या चित्तं स्थापयित्वा मयीह ।
एवं मां ये ध्यायमाना भजन्ते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४८ ॥


धिकपरिच्छेदवन्तमित्यर्थः । कीदृशं मां विश्वेदेवं विश्वाधिष्ठानत्वाद्विश्वात्मकम् । एदन्तत्वमार्षम् । जातो वेदो धनं यस्मात्तं जातवेदम् । "अग्नेः प्रजातं परि यद्धिरण्यम्” इति श्रुतेः । वरेण्यं वरणीयम् । एवमौपाधिकभेदवतोरपि जीवेशयोस्तत्त्वंपदार्थशोधनपूर्वकमभेदेन भागत्यागलक्षणया मां परमार्थभूतं भजतां मोक्षो भवति नेतरेषामिति निर्गलितोऽर्थः ॥ ४६ ॥ तस्य विवर्ताधिष्ठानत्वं निगमयति-अहमिति । योनिं अधिष्ठानत्वेन संभाव्यमानं शुक्त्यादिकमहमेवाधितिष्ठामि । शुक्त्याद्युपहितोऽहमेव रजताद्यधिष्ठानमित्यर्थः । मायाधिष्ठानभूतेनेह पञ्चविधं पञ्चभूतात्मकं सर्वं पूर्णम् । धृतमित्यर्थः । इत्थमुक्तरीत्या विचार्यमाणं मामेति प्राप्नोति । ब्रह्मैव भवतीत्यर्थः । कीदृशं माम् । अत्यन्तं शान्ति । प्रपञ्चोपशममित्यर्थः ॥४७॥ प्राणेष्विति । यस्मिन्मनसि अशनाया अशनविषयिणीच्छास्ति । "अशनायोदन्य-” इति निपातनादशनाया रूपसिद्धिः । तथा य-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/62&oldid=298957" इत्यस्माद् प्रतिप्राप्तम्