मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५२ ॥
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विशुद्धः ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोयं शिवरूपमस्मि ॥५३॥
अपाणिपादोऽहमचिन्त्वशक्तिः
पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाहम् ॥ ५४ ॥
वेदैरशेषैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मयि नास्ति नाशो
न जन्मदेहेन्द्रियबुद्धयश्च ॥ ५५ ॥
उक्तमर्थं कैवल्योपनिषत्संवादेन द्रढयति-मय्येवेति यावदध्यायसमाप्ति ॥ ५२ ॥ अणोरणीयानिति । सूक्ष्मादप्यतिसूक्ष्मः औपाधिकपरिच्छेदवानित्यर्थः । महानिति स्वरूपतोऽपरिच्छिन्नः । विशुद्धः प्रपञ्चमिथ्यात्वात्तल्लेपरहितः । नह्यारोपितेनारुणिम्ना स्वाभाविकं स्फटिकस्वच्छत्वमपैतीति भावः । पुरातनादिभिश्चतुर्भिर्विशेषणैर्व्यवह्रियमाणोऽहमेवास्मीति संबन्धः ॥ ५३ ॥ अपाणीति । ननु कारणाभावे कथं कार्यं घटेतेत्याशङ्क्याह-अचिन्त्यशक्तिरिति । अचिन्त्यशक्तिमत्तयैव सर्वमुपपद्यत इति भावः । विविक्तमनावृतं रूपं यस्य तथाभूतोऽहं विजानामि स्वरूपज्ञानेनैव द्रष्टाहं नतु वृत्तिबलेनेति भावः । मम कश्चिदपि वेत्ता नास्ति फलव्याप्यत्वाभावात् ॥ ५४ ॥ वेदैरिति । सर्वैर्वेदैरहमेव वेद्यः समधिगम्य इत्यर्थः । वेदान्तानां कर्ताहमेव । समस्तवेदवेत्ता चाहमेव । अयं भावः । यदा सगुण ईश्वरोऽहं समस्तवेदानां कर्ता तदा वेदवेद्यश्चाहमेव । वेदकर्तृत्वं च