पुटमेतत् सुपुष्टितम्



६२
[ अध्यायः ६
शिवगीता ।

 
  न भूमिरापो न च वह्निरस्ति
   न चानिलो मेऽस्ति न मे नभश्च ।
  एवं विदित्वा परमात्मरूपं
   गुहाशयं निष्कलमद्वितीयम्।
  समस्तसाक्षिं सदसद्विहीनं
   प्रयाति शुद्धं परमात्मरूपम् ॥ ५६ ॥
 एवं मां तत्त्वतो वेत्ति यस्तु राम महामते ।
 स एव नान्यो लोकेषु कैवल्यफलमश्रुते ॥ ५७ ॥


इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे

विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥


 




"यस्य निश्वसितं वेदाः” "ऋचः सामानि जज्ञिरे” इत्यादिप्रमाणात् । निर्गुणस्तु वेदान्तजन्यकृतिविषय एव नतु फलव्याप्तः । वृत्तिव्याप्यतानङ्गीकारे "तं त्वौपनिषदं पुरुषं पृच्छामि” "शास्त्रयोनित्वात" इत्यादिविरोधः स्यात् । उक्तंच वार्तिककृद्भिः "फलव्याप्यत्वमेवात्र शास्त्रकृद्भिर्निवार्यते । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्यत्वमिष्यते ॥" इति । ब्रह्मण्याविद्यकधर्मानपवदति-न पुण्यपापे इति॥ ५५ ॥ न भूमिरिति । गुहायामज्ञाने शेष इति तम्। "यो वेद निहितं गुहायाम्" इति श्रुतेः। निष्कलं निर्विकारम् । अद्वितीयं सजातीयादिभेदरहितम् । समस्तसाक्षिं साक्षीत्याख्यायमानः साक्षिः । कर्मण्यौणादिक इत् । सदसद्भ्यां कार्यकारणाभ्यां रहितम् ॥ ५६ ॥ उपसंहरति-एवमिति । नान्य इति । कर्ममात्रासक्तो वा सगुणोपासनासक्तो वा न मोक्षभागित्यर्थः । नचैवं कर्मणामुपासनानां च वैयर्थ्यम् । विविदिषासंपादनद्वारा सार्थक्यात् उपासनानामपि ज्ञानाङ्गत्वाच्च सार्थक्यात् ॥ ५७ ॥ इति श्रीलक्ष्मीनृसिंहपण्डितसूनुहरिदीक्षितकृतौ शिवगीताटीकायां बालानन्दिन्यां षष्ठोऽध्यायः ॥ ६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/65&oldid=299085" इत्यस्माद् प्रतिप्राप्तम्