पुटमेतत् सुपुष्टितम्



६३
बालानन्दिनीव्याख्यासहिता ।

 

सप्तमोऽध्यायः ७

श्रीराम उवाच ।


भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ।
अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर ॥ १ ॥
परिच्छिन्नपरीमाणे देहे भगवतस्तव ।
उत्पत्तिः सर्वभूतानां स्थितिर्वा विलयः कथम् ॥ २ ॥
स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ॥
ते सर्वे त्वं कथं देव भुवनानि चतुर्दश ॥ ३ ॥

 


पूर्वाध्याये मूर्तस्त्वं तु परिच्छिन्नाकृतिरित्यारभ्य त्वं कथं पञ्चभूतादि जगदेतच्चराचरमिति यत् पृष्टं तत्र त्वया आख्यायिकैव कथिता नस्तत्वनुभवारूढं यथा स्यात्तथोत्तरं दत्तमिति शिवं स्मारयन् राम उवाच-भगवन्निति । संशयबीजमिदं पूर्वाध्यायेऽहं सर्वाधिष्ठानमिति भगवतोक्तं तत्राहंकारावच्छिन्नस्य सर्वाधिष्ठानत्वे जीवेन किमपराद्धं सोऽपि सर्वाधिष्ठानं स्यात् । भवतु नामेति चेत् नियम्यनियामकत्वभङ्गः शास्त्रानर्थक्यं च प्रसज्येयातामिति ॥ १ ॥ तदेवाहपरिच्छिन्नेति । परिच्छिन्नं परिमाणं यंस्य तथाभूते देहे । “उपसर्गस्य घञि-” इति सूत्रे बहुलग्रहणाद्दीर्घः । सर्वभूतानामुत्पत्त्यादिकं कथं घटेत, नहि पर्वतादयो भान्तीति भावः ॥ २ ॥ स्वस्वेति । स्वैःस्वैरधिकारैः संयुक्ताः सुरा इन्द्रादयः परिच्छिन्नपरिमाणे तव देहे कथं वा स्थिताः । तेषां स्वस्वाधिकारानुसारेण तथातथावकाशस्यापेक्षितत्वात् किंच ते सर्वे देवास्तं तथा चतुर्दशभुवनानि च त्वयीति कथमभेदः संभवति । यावदुपाधिबिम्बप्रतिबिम्बयोरभेदासंभवात् । भुवनैर्जडैः सहाभेदासंभवाञ्च । तस्माद्यदुक्तं तन्न संगच्छत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/66&oldid=299130" इत्यस्माद् प्रतिप्राप्तम्