त्वत्तः श्रुत्वापि देवात्र संदेहो मे महानभूत् ।
अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥ ४ ॥
श्रीभगवानुवाच ।
वटबीजे सुसूक्ष्मेऽपि महावटतरुर्यथा ।
सर्वदास्तेऽन्यथा वृक्षः कुत आायति, तद्वद ।।
तद्वन्मम तनौ राम भूतानामागतिर्लयः ॥ ५ ॥
महासैन्धवपिण्डोऽपि जले क्षिसो विलीयते ।
न दृश्यते पुनः पाकात्तत आयाति पूर्ववत् ॥ ६ ॥
प्रातःप्रातर्यथा लोको जायते सूर्यमण्डलात् ।
एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ।
मय्येव सकलं राम तद्वज्जानीहि सुव्रत ॥ ७ ॥
इति भावः ॥ ३ ॥ त्वत्त इति । त्वत्तः श्रुत्वापि श्रवणानन्तरमपि मे ममास्मिन्नर्थे त्वमेव सर्वमित्यस्मिन्नर्थे संदेहोऽभूज्जात इत्यर्थः । अप्रत्यायितं निश्चयमप्रापितं चित्तं यस्य तथाभूतस्य मे संशयमपाकुर्वित्यर्थः ॥ ४ ॥ एवं पृष्टः सन् प्रथमं युक्त्या समाधातुं भगवानुवाच-वटबीज इति । सुतरां सूक्ष्मेऽपि वटस्य बीजे सर्वदा महान्वटतरुर्यथास्ते तद्वन्मम तनौ भूतानामागत्यादिर्भवतीति योजनीयम् । एतेन प्रागसदेव घटादिकार्यमुत्पद्यत इति वदन्तस्तार्किकाः परास्ताः । अन्यथेति सूक्ष्मरूपानभ्युपगमे वृक्षः कुतो हेतोरायाति तद्वदेति संबन्धः। अयं भावः--असतो ह्युत्पत्तौ शशशृङ्गमपि उत्पद्येत । अविशेषादिति । "नासतो विद्यते भावो नाभावो विद्यते सतः” इति स्मृतेः । अत्रार्थे दीक्षितटीकायां विस्तरः ॥ ५ ॥ पूर्वं सतोऽपि घटादेरनुपलम्भे दृष्टान्तमाह-महासैन्धवेति । महानपि सैन्धवपिण्डः । जले क्षिप्तः सन्विलीयते सूक्ष्मावस्थापन्नो भवति। ततो न दृश्यते । पुनः पाकात्स्थूलावस्थापन्न उत्पद्यत इत्युच्यत इति तद्वत्सर्वं कार्यं पूर्वं सदेवोत्पद्यत इति भावः ॥ ६ ॥ प्रातरिति । आलोक आतपः । उपसं-