श्रीराम उवाच ।
कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ।
निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥ ८ ॥
श्रीभगवानुवाच ।
मयि सर्वं यथा राम जगदेतच्चराचरम् ।
वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥ ९ ॥
दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ।
तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥ १० ॥
न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ।
नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥ ११ ॥
श्रीसूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ।
अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम् ॥ १२ ॥
विद्युत्कोटिप्रतीकाशमतिभीमभयावहम्।
तदृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः ॥ १३ ॥
हरति--एवमिति । एवं सूर्यादालोकवन्मत्तो जगज्जायते तद्वत्सूर्यालोकवन्मय्येवास्ति विलीयते चेति जानीहि ॥ ७ ॥ एवं दृष्टान्तेन प्रतिपादितेऽप्यर्थे निश्चयमलभमानः श्रीराम उवाच--कथितेऽपीति । दिग्जडस्य दिङ्मूढस्य भ्रमो नैव निवर्तते । तद्वन्मम मदीयो भ्रम इत्यर्थः ॥ ८ ॥ यद्यपि शुद्धं पूर्णं ब्रह्मौव जगदधिष्ठानं नतु लीलाविग्रहविशिष्टं तथापि तद्वारोद्बोधनीयमित्याशयेनाह भगवान्-मयीति ॥ ९ ॥ दिव्यमिति । युगपत्सकलपरोक्षापरोक्षविषयदर्शनसामर्थ्यं दिव्यं चक्षुरित्युपचर्यते । तत्तुभ्यं दास्यामीत्यन्वयः ॥ १० ॥ मदनुग्रहं विना दर्शयिष्यमाणं मामकं महस्तेजः केनापि द्रष्टुं दुःशकमित्याहनेति ॥ ११ ॥ १२॥ विद्युदिति । अतिमीमभयावहं अति-