पुटमेतत् सुपुष्टितम्



६६
[ अध्यायः ७
शिवगीता ।

 
प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनःपुनः ॥
अथोत्थाय महावीरो यावदेव प्रपश्यति ॥ १४ ॥
वक्रं पुरभिदस्तावदन्तर्ब्रह्माण्डकोटयः ॥
चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥ १५ ॥
मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः ।
दृश्यन्ते चन्द्रसूर्याद्याः पञ्चभूतानि ते सुराः ॥ १६ ॥
अरण्यानि महानागा भुवनानि चतुर्दश ।
प्रतिब्रह्माण्डमेवं तु दृष्ट्वा दशरथात्मजः ॥ १७ ॥
सुरासुराणां संग्रामांस्तत्र पूर्वापरानपि ।
विष्णोर्दशावतारांश्च तत्कर्तव्यान्यपि द्विजाः ॥ १८ ॥
पराभवांश्च देवानां पुरदाहं महेशितुः ॥
उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥ १९ ॥
दृष्ट्वा रामो भयाविष्टः प्रणनाम मुहुर्मुहुः ।
उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥ २० ॥
अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम् ॥ २१ ॥


भयंकराणामपि भयप्रदमित्यर्थः ॥ १३ ॥ १४ ॥ चटकाः कलविङ्का इव ॥ १५॥। मेरुमन्दरेति । पूर्वं ये परमेश्वरस्य समन्तादृष्टास्ते देवा इत्यर्थः ॥ १६ ॥ महाभागेति शौनकंप्रति संबुद्धिः ॥ १७ ॥ सुरासुरेति । पूर्वापरान् । जातान् जनिष्यमाणांश्चेत्यर्थः । तत्कर्तव्यानीति तेष्ववतारेषु कर्तव्यानि रावणवधादीनि च ॥१८॥ पराभवानिति । दैत्येभ्य इति शेषः । पुरदाहं त्रिपुरसंहारम् ॥ १९ ॥ प्रति ब्रह्माण्डं पूर्वोक्तं सर्वं दृष्ट्वा उत्पन्नतत्त्वज्ञानोऽपि दृश्यमानस्याघटितरूपतया दृष्टान्तेन पूर्वानुभूतप्रपञ्चस्यापि मिथ्यात्वं ब्रह्मणो निर्गुणत्वं कालत्रयाबाध्यत्वं चेति तत्त्वज्ञानम् । उत्पन्नं तत्त्वज्ञानं यस्य स तथा एवंभूतो बभूवेति संबन्धः ॥ २० ॥ अथेति । उपनिषदां मध्ये सा--

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/69&oldid=299261" इत्यस्माद् प्रतिप्राप्तम्