तेजोभिरापूर्य जगत्समग्रं प्रकाशमानः कुरुषे प्रकाशम् ।
विनाप्रकाशं तव देवदेव न दृश्यते विश्वमिदं क्षणेन ॥२६॥
प्रतिपादयन्नाह-त्वन्माययेति । जनः एतद्विश्वं त्वयि भ्रान्त्या तथा पश्यति । यथा शुक्तौ रूप्यम् । नन्वन्यत्र दृष्टस्यान्यत्र भानं हि भ्रमः । यथा रजतं हट्टादौ दृष्टं शुक्तिकायां संस्कारेण प्रतीतं भ्रम इत्युच्यते । इयमेवान्यथाख्यातिः । ब्रह्मविना विश्वं कुत्र दृष्टं तदधुना ब्रह्मणि प्रतीतमिति भ्रमत्वेनोच्यत इत्याशङ्क्याह---त्वन्माययेति । त्वन्मायया त्वय्येव कल्पितं त्वय्येव दृश्यत्वमुपैति नान्यत्रेति भावः । न वयमन्यथाख्यातिवादिनो नाप्यसत्ख्यातिवादिनः किंत्वनिर्वचनीयख्यातिवादिनः । तथाच मायया सर्वमुपपादयितुं सुशकम् । नच सिद्धान्ते जगतः क्वचिदप्यननुभवादारोप्यप्रमाहितसंस्काराभावे कथं ब्रह्मण्यारोप इति वाच्यम् । लाघवेनारोप्यविषयसंस्कारत्वेनैव तस्य हेतुत्वात् । नच प्राथमिकारोपे का गतिरिति वाच्यम् । संसारप्रवाहस्यानादित्वात् । तदुक्तम् "आरोपे सति निमित्तानुसरणं नहि निमित्तमस्तीत्यारोपः' इति । तस्मादिहैवाविद्यया कल्पितमित्यभ्युपेयम् । तदुक्तम् "अक्षमा भवतः केयं साधकत्वं प्रकल्प्यते। किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्।” इति दिक् ॥ २५ ॥ परमतेऽन्यथाख्यात्यसत्ख्यात्योरपरोक्षतानुपपत्तिं ध्वनयन्सिद्धान्तेऽपरोक्षतां समर्थयते--तेजोभिरिति । समस्तं जगत् तेजोभिरापूर्य व्याप्य प्रकाशमानस्त्वं प्रकाशत इति प्रकाशस्तं कुरुषे । तव प्रकाशं विना मिथ्याभूतं जगन्न दृश्येत । किंच इदं विश्वं क्षणेन न दृश्यते । अधिष्ठानसाक्षात्कारे सतीति शेषः । अयं भावः । वियदाद्युपहितचैतन्येन तादात्म्यापन्नं वियदादि प्रकाशते “तस्य भासासर्वमिदं विभाति” इति श्रुतेः । प्रमातृचैतन्यं विषयचैतन्यं प्रमाणचैतन्यं च यत्राभिन्नं भवति तत्रैव विषयापरोक्षं भवति । अतएव-