पुटमेतत् सुपुष्टितम्



६९
बालानन्दिनीव्याख्यासहिता ।

 

  अल्पाश्रयो नैव बृहन्तमर्थ
   धत्तेऽणुरेको नहि विन्ध्यशैलम् ॥
  तद्वक्त्रमात्रे जगदेतदस्ति
   त्वन्माययैवेति च निश्चिनोमि ॥ २७ ॥
  रज्जौ भुजंगो भयदो यथैव
   न जायते नास्ति न चैति नाशम् ॥
  त्वन्मायया केवलमात्तरूपं
   तथैव विश्वं त्वयि नीलकण्ठ ॥ २८ ॥
  विचार्यमाणे तव यच्छरीर-
   माधारभाव जगतामुपैति ।

 


घटं साक्षात्करोमि वह्निमनुमिनोमीत्यनुव्यवसायः । तच्चापरोक्षत्वं देशान्तरीयस्य तुच्छस्य च न संभवतीति भावः ॥ २६ ॥ प्रपञ्चस्य मिथ्यात्वं युक्त्यन्तरेणापि साधयति-अल्पेति । अल्पश्चासावाश्रयश्च स तथा स्वस्वापेक्षया वृहन्तमर्थं न धत्ते। अत्र दृष्टान्तः । एकोऽणुर्विन्ध्यशैलं नहि धत्त इति । ततः किं तत्राह । एतज्जगद्वक्त्रमात्रे अस्ति । तस्मात्त्वन्माययैव कृतं नतु वास्तवमिति निश्चिनोमि । तदुक्तम् "दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः” इति ॥ २७॥ ननु प्रपञ्चस्य मिथ्यात्वे अर्थक्रियाकारित्वं न स्यात् । तथाच तद्बन्धनिवृत्त्यर्थं शास्त्रमनारभ्यं स्यादित्याशङ्क्याह-रज्जाविति । यथा रज्जौ भुजङ्गो वस्तुतो न जायते अतएव नाशं च नैति ।। "जातस्य हि ध्रुवो मृत्युः" इति स्मृतेः । तथापि भयदः । अर्थक्रियाकारीत्यर्थः । तथा त्वन्मायया केवलं त्वयि आत्तरूपं प्राप्तरूपं कल्पितमिति यावत्। सदसद्विलक्षणस्वरूपमित्यर्थः । एवंभूतं जगदपि कार्यक्षमं भवतीत्यर्थः । प्रातिभासिकस्यापि रज्जुसर्पादेरर्थक्रियाकारित्वमस्ति किमुत व्यावहारिकस्येति भावः । तस्मात्तदुच्छेदाय शास्त्रमारम्भणी-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/72&oldid=299328" इत्यस्माद् प्रतिप्राप्तम्