पुटमेतत् सुपुष्टितम्



७१
बालानन्दिनीव्याख्यासहिता ।

 
अज्ञानमूढा मुनयो वदन्ति
पूजोपचारादिबहिःक्रियाभिः ।
तोषं गिरीशो भजतीति मिथ्या
कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥ ३१ ॥
किंचिद्दलं वा चुलकोदकं वा ।
यत्त्वं महेश प्रतिगृह्य दत्से ।
त्रैलोक्यलक्ष्मीमपि तज्जनेभ्यः
सर्वं त्वविद्याकृतमेव मन्ये ॥ ३२ ॥
व्याप्नोषि सर्वा विदिशो दिशश्व
त्वं विश्वमेकः पुरुषः पुराणः ॥
नष्टेऽपि तस्मिंस्तव नास्ति हानि-
र्घटे विनष्टे नभसो यथैव ॥ ३३ ॥

 


श्रुत्यन्तराच्च॥३०॥अविद्यावद्विषयकाणि शास्राणीत्याह-अज्ञानेति । अज्ञानेन मूढाश्च ते अमननशीलाश्च ते च तथोक्ताः पुरुषाः पूजादिभिर्बहिःक्रियाभिर्गिरीशस्तोषं भजतीति वदन्ति । अविद्यादशामाश्रित्य प्रतिपादयन्तीत्यर्थः । तच्च ज्ञानदृष्ट्या मिथ्या तोषस्य मायावृत्तिरूपत्वात् । अमूर्तस्य पूर्णस्यानन्दरूपस्य भोगानां लिप्सा कुतः कस्मादपि हेतोर्नैवेति भावः । अज्ञैस्तु यथोक्तं सर्वं कार्यमेव ।। "धर्मेण पापमपनुदति" इत्यादिश्रुतेः । "न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते" इत्यादिस्मृतेश्च ॥ ३१ ॥ अस्यैव प्रपञ्चः--किंचिदिति । दलं तुलसीबिल्वादिपत्रं चुलकपरिमितमुदकं वा यत्त्वं प्रतिगृह्य भक्तजनादिति शेषः । त्रैलोक्यलक्ष्मींं यज्जनेभ्यः दत्से तत्सर्वं अविद्याकृतमेव मिथ्यैवेति मन्ये निश्चिनोमि । दातृसंप्रदानदेयादीनामाविद्यकत्वादिति भावः ॥ ३२ ॥ व्याप्नोषीति । एकः सजातीयविजातीयस्वगतभेदशून्यः पुरुषः । सर्वस्मात्कार्यात्पूर्वमेव विद्यमानः ।। "‘पूर्वमे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/74&oldid=299423" इत्यस्माद् प्रतिप्राप्तम्