पुटमेतत् सुपुष्टितम्



७३
बालानन्दिनीव्याख्यासहिता ।

 

स्थूलस्य सूक्ष्मस्य जडस्य देह-
द्वयस्य शंभो न चिदं विनास्ति ।
अतस्त्वदारोपणमातनोति
श्रुतिः पुरारे सुखदुःखयोः सदा ॥ ३६ ॥
नमः सच्चिदम्भोधिहंसाय तुभ्यं
नमः कालकण्ठाय कलात्मकाय ।
नमस्ते समस्ताघसंहारकर्त्रे
नमस्ते मृषाचित्तवृत्यैकभोक्त्रे ॥ ३७ ॥

 


प्रवाहरूपैर्दैहरूपैर्देहभृतां जीवानामदृष्टैः सहकारिभूतैः स्वप्नवत्स्वर्गादीनातनोपि । तथा तच्च जीवेशयोर्बिम्बप्रतिबिम्बभावकृतो विशेष इति भावः ॥ ३५ ॥ तदेवमीश्वरस्य निरावरणत्वं प्रतिपाद्य जीवस्य सावरणत्वं प्रतिपादयति-स्थूलस्येति । स्थूलस्य पञ्चीकृतमहाभूतकार्यस्य सूक्ष्मस्यापञ्चीकृतमहाभूतकार्यस्य लिङ्गाख्यस्य च देहस्य अं विना अततीत्यः आत्मा 'अत सातत्यगमने' तं विना चित् चेतनत्वं नास्ति । किंभूतस्य देहद्वयस्य जडस्य । काष्ठरूपस्येत्यर्थः । सा चित् यदि देहद्वयस्य परिणामभूता स्यात्तर्हि जडः स्यात् । यस्माञ्चित्तादात्म्यापन्नत्वेन देहद्वयस्य चित्त्वम् । अतः कारणाद्देहद्वयजन्ययोः सुखदुःखयोः श्रुतिस्त्वदारोपणं त्वयि प्रतिबिम्बभूते आरोपणमातनोति । प्रतिपादयतीत्यर्थः । अयोयोगाद्वह्नेस्ताडनादिवत् । वह्नियोगादयसो दग्धृत्वादिवत् । तथाच श्रुतिः "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अमिचाकशीति" इत्यादिः । 'कर्ता शास्त्रार्थवत्त्वात् इत्यधिकरणमपीत्यनुसंधेयम् ॥ ३६ ॥ एवमीश्वरसंधिवशादधिगतपरमार्थोऽपि पुनर्बाधितानुवृत्त्यनुवृत्तया भक्तया लीलाविग्रहाय भगवते नमस्कुर्वन्प्रार्थयते-नमइति । सच्चिदम्भोधौ हंस इव तस्मै। कर्पूर-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/76&oldid=299425" इत्यस्माद् प्रतिप्राप्तम्