पुटमेतत् सुपुष्टितम्



७४
[ अध्यायः ७
शिवगीता ।

 

सूत उवाच ।


एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ॥
विस्मितः परमेशानं जगदे रघुनन्दनः ॥ ३८ ॥

श्रीराम उवाच ।


उपसंहर विश्वात्मन्विष्वरूपमिदं तव ।
प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात् ॥ ३९ ॥

श्रीभगवानुवाच ।


पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ।

सूत उवाच ।


इत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान् ॥ ४० ॥
मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ।
तावदेव गिरेः शृङ्गे व्याघ्रचर्मोपरि स्थितम् ॥ ४१ ॥
ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥
व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम् ॥ ४२ ॥
फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मीत्तरीयं च विद्युत्पिङ्गजटाधरम् ॥ ४३ ॥
 


गौरतया हंसत्वेनोत्प्रेक्षा । मृषाभूतानां चित्तवृत्तीनां एकभोक्त्रे मुख्यसाक्षिणे इत्यर्थः ॥ ३७ ॥। एवमिति । विस्मितः अदृष्टपूर्वत्वात् ॥ ३८ ॥ उपसंहरेति ॥ ३९ ॥ पश्येति । पूर्वीर्ध भगवद्वाक्यं उत्तरार्धमारभ्य सूतवाक्यम् । अतो नान्योऽस्ति कश्चन जगदाश्रय इत्यर्थः ॥ ४० ॥ मीलिताक्ष इति । लीलाविग्रहस्य मायिकत्वं क्रियातः प्रदर्शयितुं रूपान्तरं स्थानान्तरमाविष्कृत्य स्थितमिति भावः ॥ ४१ ॥ ददर्शेति । व्याघ्रचर्मैवाम्बरं तस्य धरम् । भूतिर्भस्म ऐश्वर्यं वा ,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/77&oldid=299465" इत्यस्माद् प्रतिप्राप्तम्