पुटमेतत् सुपुष्टितम्



बालानन्दिनीव्याख्यासहिता ।

 

अग्नौ हुतेन हविषा तत्सर्वं लभ्यते दिवि ।
नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि ॥ १० ॥
दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ।
तथैव ज्ञानवान्विप्रो देवानां दु:खदो भवेत् ॥ ११ ॥
त्रिदशास्तेन विघ्नन्ति प्रविष्टाविषयं नृणाम् ।
ततो न जायते भक्तिः शिवे कस्यापि देहिनः ॥ १२ ॥
तस्मादविदुषां नैव जायते शूलपाणिनः ।
यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् ॥ १३ ॥


॥ ९ ॥ अग्नाविति | हुतेन प्रक्षिप्तेन हविषा पुरोडाशादिना तत्सर्वं दिवि लभ्यते नान्यदिति देवानामिष्टप्रदं साधनान्तरं नास्तीति भावः । दिवीति द्विर्ग्रहणं स्वर्गभेदविवक्षयेति ज्ञेयम् ॥ १० ॥ ततः किं तत्राह-दोग्ध्रीतेि । दोहनशीला दोग्ध्री धेनुर्गौः। नीता केनचिदपहृता सती यथा गृहमेधिनां दु:खदा भवति तथैवेति । विप्र इत्युपलक्षणं क्षत्रियादेरपि । तेन कारणेन त्रिदशा देवाः विघ्नन्ति ज्ञानप्रतिबन्धं कुर्वन्ति ॥ ११ । नृणां विषयं स्त्रीपुत्रादिरूपं प्रविष्टाः सन्तस्तान्स्त्रीपुत्रादीन्द्दष्ट्वा मनस्येवं दयते । यदि मया ज्ञाननिष्ठेन भवितव्यं तदा ते मरिष्यन्ति । एवं देवाः प्रेरयन्ति । इदमेव विघ्नाचरणमिति भावः । तथाच श्रुतिः-"श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः” इति । तत इति । ततो देवकृतविघ्नात्कस्यापि देहिनः पुराणश्रवणादौ प्रवृत्तस्यापि शिवे भक्तिर्न जायते । अश्रद्दधानत्वादिति भावः ।। १२ ।।॥ तस्मादिति । तस्माद्देवकृतविघ्रादेव । अविदुषां पुराणश्रवणरहितानां तु शूलपाणिनः भक्तिर्नैव जायते । शूलपाणेरिति वक्तव्ये शूलपाणिन इत्यार्षप्रयोगः 'छन्दोवदृषयः कुर्वन्ति' इति महाभाष्यात्। यथेति । यथाकथंचिदतिप्रयत्नाच्छिन्नाभ्रमिव मध्ये विच्छिद्यते । ज्ञानोत्पत्तेः पूर्व-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/8&oldid=293590" इत्यस्माद् प्रतिप्राप्तम्