या स्त्रीचर्मावृतिः सूक्ष्मा जरायुः सा निगद्यते ॥
शुक्रशोणितयोर्योगस्तस्मिन्नेव भवेद्यतः ॥
तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥ ११ ॥
अण्डजाः पक्षिसपाद्याः, स्वेदजा मशकादयः ॥
उद्भिज्जा वृक्षगुल्माद्या मानसाश्च सुरर्षयः ॥ १२ ॥
जन्मकर्मवशादेव निषिक्तं स्मरमन्दिरे ।
शुक्रं रजःसमायुक्तं प्रथमे मासि तद्द्रवम् ॥ १३ ॥
बुद्बुदं कललं तस्मात्ततः पेशी भवेदिदम् ।
पेशीघनं द्वितीये तु मासि पिण्डः प्रजायते ॥ १४ ॥ ।
कराङ्घ्रिशीर्षकादीनि तृतीये संभवन्ति हि ।
अभिव्यक्तिश्च जीवस्य चतुर्थे मासि जायते ॥ १५ ॥ ।
ततश्चलति गर्भोऽपि जनन्या जठरे स्वतः ॥
पुत्रधेद्दक्षिणे पार्श्चे कन्या वामे च तिष्ठति ॥ १६ ॥
या स्त्रीति । स्त्रियाश्चर्मरूपा आवृतिः पेशीतियावत् । सा जरायुरिति गद्यते । जरायुः सेति स्त्रीलिङ्गमार्षम् । यस्मात्कारणात् । तेन कारणेन जरायुजः प्रोक्तः कविभिरिति शेपः ॥ ११ ॥अण्डजा इति । मनसो जाता मानसाः । योगसामर्थ्यमेव तत्र कारणमिति भावः ॥ १२ ॥ अथ पिण्डोत्पत्तिक्रममाह । जन्मकर्मेति भाविजन्मनः कारणं यत्कर्म तद्वशादेवेति संबन्धः । स्त्रीयोनौ निषिक्तं तद्रजसासहितं द्रवरूपं सत्प्रथमे मासि तिष्ठति ॥ १३॥ बुद्बुदमिति । इदं द्रवरूपं शुक्रं बुद्बुदरूपं भवति । तस्मात्कललं द्रप्सरूपं भवति । ततः पेशी भवति ततः पेशीघनं भवतीति प्रथममास एव क्रमाद्भाविन्यश्चतस्रोऽवस्था निर्दिष्टाः । द्वितीयमासे तु पिण्डो जायते ॥ १४ ॥ अभिव्यक्तिरिति । जीवस्य जीवोपाधेर्लिङ्गदेहस्येति यावत् ॥१५॥ तत इति । जनन्या जठरे-