प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशलोमविविक्तता ॥ २३ ॥
बलवर्णौ चोपचितो सप्तमे त्वङ्गपूर्णता ।
पादान्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥ २४ ॥
उद्विग्नो गर्भसंवासादस्ति गर्भभयान्वितः ॥ २५ ॥
आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंयुतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ २६ ॥
अनुभूता महासह्यपुरो मर्मच्छिदोऽसकृत् ।
करम्भवालुकास्तप्ताश्चादह्यन्तासुखाशयाः ॥ २७ ॥
प्रबुद्धमिति । पञ्चमे प्रबुद्धं ज्ञानवद्भवति। षष्ठे तु नखराणि नखानि केशाः शिरोरुहा रोमाण्यङ्गरुहाणि ॥ २३ ॥ बलवर्णाविति । सप्तमे बलवर्णौ च उपचितौ भवतः । अङ्गपूर्णता सप्तमे सर्वाङ्गसंपूर्णो भवतीति वचनात्पादाभ्यामन्तरितौ यौ हस्तौ ताभ्यां श्रोत्ररन्ध्रेऽपिधायाच्छाद्य ॥ २४ ॥ स जन्तुः किंविधस्तत्राह-उद्विग्न इति। गर्भसंवासाद्गर्भसंवाससंकटादित्यर्थः । उद्विग्नः संजातत्रासः । तथा गर्भभयेन भाविगर्भप्रतिसंधानजनितेन भयेनान्वितो युक्तः सन्नस्ति तिष्ठति ॥ २५ ॥ आविर्भूत इति । आविर्भूतः प्रबोधो भूतभविष्याद्यनेकजन्मज्ञानं यस्य स तथा निर्विण्णः पश्चात्तापवान् शोशुचीति पुनःपुनः शोचतीत्यर्थः । यङ्लुङन्ताल्लटि रूपमिदम् ॥ २६ ॥ भूतजन्मदुःखान्यनुस्मृत्य शोचति-अनुभूतेति । महासह्याश्च ताः पुरश्च तास्तथोक्ताः । नारकिशरीराणीत्यर्थः । '‘शतं मा पुर आयसीररक्षन्” इति श्रुतेः । कर्मधारये कृते "ऋक्पूरब्धूः” इति समासान्तेऽचि "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः” इति स्त्रीत्वादाप् । मयानुभूता इति संबन्धः । करम्भवालुकाः यवभर्जनार्थं तप्ताः सिकताः ।-