पुटमेतत् सुपुष्टितम्



८१
बालानन्दिनीव्याख्यासहिता ।

 

जठरानलसंतप्तपित्ताख्यरसविप्रुषः ।
गर्भाशये निमग्नं तु दहन्त्यतिभृशं हि माम् ॥ २८ ॥
उदर्यकृमिवक्त्रणि कूटशाल्मलिकण्टकैः।
तुल्यानि च तुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ २९ ॥
गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते ।
दुःखं मयाप्तं यत्तस्मात्कनीयः कुम्भपाकजम् ॥ ३० ॥
पूयासृक्श्लेष्मपायित्वं वान्ताशित्वं च यद्भवेत्।
अशुचौ क्रिमिभावश्च तत्प्राप्तं गर्भशायिना ॥ ३१ ॥
गर्भशय्यां समारुह्य दुःखं यादृङ्मयापि तत् ।
नातिशेते महादुःखं निःशेषनरकेषु तत् ॥ ३२ ॥


तप्ताः पुनश्च संतापिताः । कीदृश्यः । असुखं आशेते आस्विति असुखाशयाः । एवंभूता मां दहन्तीति संबन्धः ॥ २७ ॥ २८ ॥ उदर्येति । उदरे भवा उदर्याः । ‘शरीरावयवाद्यत्'। उदर्यकृमीणां वक्त्राणि आर्तं मां तुदन्ति व्यथयन्तीत्यन्वयः । कीदृशानि वक्त्राणि । कूटशाल्मलेः कण्टकैः तुल्यानि । कीदृशं माम् । मातुः पार्श्वभागयोर्यान्यस्थीनि तान्येव क्रकचाः करपत्राणि तैरर्दितं पीडितम् ॥२९॥ गर्भे इति-मातुर्गर्भे । कीदृशे । दुर्गन्धभूयिष्ठे पूतिगन्धिबहुले । किंच । जठराग्निना प्रदीपिते यन्मया दुःखमाप्तमनुभूतं तस्माद्दुःखात्कुम्भपाकाख्ये नरके जातं दुःखं कनीयः । अत्यल्पमित्यर्थः॥ ३० ॥ पूयेति । पूयो रक्तविकारः असृग्रक्तं श्लेष्मा कफ: तत्पायित्वं वान्ताशित्वम् । उदरस्थमन्नमेव वान्तत्वेनोपचर्यते तद्भक्षणशीलत्वम् । अशुचौ विण्मूत्रादौ कृमिभावश्च। तत् त्रितयमपि गर्भशायिना मया प्राप्तमिति संबन्धः ॥ ३१ ॥ गर्भशय्यामिति । गर्भ एव शय्या तां समारुह्याश्रित्य मया यादृग्दु:खं आपि प्राप्तं तद्दुःखं कर्म, समस्तेषु नरकेषु दुःखं कर्तृ तन्नातिशेते । आकल्पं भोक्तव्यसर्वनरक-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/84&oldid=300841" इत्यस्माद् प्रतिप्राप्तम्