पुटमेतत् सुपुष्टितम्



८२
[ अध्यायः ८
शिवगीता ।

 

एवं स्मरन्पुरा प्राप्ता नानाजातीश्च यातनाः ।
मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ॥ ३३ ॥
अष्टमे त्वक्सृती स्यातामोजस्तेजश्च हृद्भवम्।
शुभ्रमापीतरक्तं च निमित्तं जीविते मतम् ॥ ३४ ॥
मातरं च पुनर्गर्भं चञ्चलं तत्प्रधावति ।
ततो जातोऽष्टमे मासि न जीवत्योजसोज्झितः ॥ ३५ ॥
किंचित्कालमवस्थानं संस्कारात्पीडिताङ्गवत् ।
समयः प्रसवस्य स्यान्मासेषु नवमादिषु ॥ ३६ ॥


दु:खादपि गर्भवासदु:खमसह्यमिति भावः ॥ ३२ ॥ एवमिति । नानाविधा जातीः संकरजातीः पुल्कसत्वाद्याः यातनास्तीव्रवेदनाश्च स्मरन् मोक्षस्य उपायं चाभिध्यायन् केनोपायेन मे मोक्षो भविष्यतीति च चिन्तयन्नित्यर्थः । वर्तते तिष्ठति । कीदृक् । अभ्यासः समस्तदुःखचिन्तनपूर्वकं मोक्षोपायचिन्तनवृत्तिः तत्र तत्परस्तदेकनिष्ठ इत्यर्थः ॥ ३३ ॥ अष्टम इति । त्वक्चर्मसृतिर्गमनरूपं कर्म ते उभे स्याताम् । हृदि भवं हृद्भवं ओजस्तेजश्च स्यात् । तयोः स्वरूपमाह । शुद्धं यदोजःशब्दवाच्यं तच्छु़भ्रं यत्तेजःशब्दवाच्यं तत् आ ईषत्पीतं रक्तं च । तदोजस्तेजश्च धातुपरिणामविशेषात्मकं जीविते निमित्तं तदष्टमे मासि मतं तत्र स्फुटीभवतीत्यर्थः ॥ ३४ ॥ मातरमिति । यत्पूर्वोक्तमोजः गर्भस्यादृष्टवशात् चञ्चल्यते गर्हितं चलतीति चञ्चलम् । अत एव पुनर्मातरं च पुनश्च गर्भं प्रधावति । अनियतावस्थितिर्भवतीत्यर्थः । ततो हेतोः अष्टमे मासि जातो न जीवति । प्रागुक्तेन ओजसा उज्झितस्त्यक्तः ॥ ३५ ॥ किंचित्कालमिति । नवमादिषु मासेषु प्रसवस्य समयः स्यात् । तेषु मासेषु संस्कारात्प्रसवप्रतिबन्धकालदृष्टात्किंचित्कालमवस्थानं भवतीति । तत्र दृष्टान्तः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/85&oldid=300993" इत्यस्माद् प्रतिप्राप्तम्