मातुरस्रवहां नाडीमाश्रित्यान्ववतारिता।
नाभिस्थनाडीगर्भस्य मात्राहाररसावहा।
तेन जीवति गर्भोऽपि मात्राहारेण पोषितः ॥ ३७ ॥
अस्थियन्त्रविनिष्पिष्टः पतितः कुक्षिवर्त्मना।
मेदोऽसृग्दिग्धसर्वाङ्गो जरायुपुटसंवृतः ॥ ३८ ॥
निष्क्रामन्भृशदुःखार्तो रुदन्नुच्चैरधोमुखः।
यन्त्रादेवं विनिर्मुक्तः पतत्युत्तानशाय्युत ॥ ३९ ॥
अकिंचित्कस्तदा लोकैर्मांसपेशीवदास्थितः ।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ ४० ॥
भारादिना श्रान्तस्तूष्णीं तिष्ठति तद्वत् ॥३६ ॥ मातुरिति । अस्रं शोणितं वहत्यनयेत्यस्रवहा तां नाडीमाश्रित्य नाभिस्था नाडी अन्ववतारिता विस्तारितास्ति । सा च नाडी गर्भस्य मातुराहारो मात्राहारस्तत्संबन्धिनं रसं आवहति । अस्रवहनाड्याश्रितनाभिस्थनाडीप्रापितमात्राहाररसेन गर्भो जीवतीति भावः । तदेव स्पष्टमाचष्टे -- नेति । योषितस्तेनान्नरसेन मात्राहारेण स्वल्पाहारभूतेनापि तद्गर्भो जीवतीत्यर्थः ॥ ३७ ॥ प्रसूतिप्रकारमाह --अस्थियन्त्रेति । योनिचक्रे यान्यस्थीनि तदेव यन्त्रं तेन विनिष्पिष्टो व्यथिताङ्गः सन् कुक्षिवर्त्मना कुक्षिर्बस्तिस्ततो योनिरेवंभूतेनेत्यर्थः । बहिः पतितो निःसृतो भवतीति शेषः । किंभूतः | मेदश्च असृक् च ताभ्यां दिग्धमालिप्तं सर्वमङ्गं यस्य स तथा । जरायुरेव पुटमपिधानं तेन संवृतः ॥ ३८ ॥ निष्क्रामन्निति । एवमुक्तप्रकारेण यन्त्राद्विनिर्मुक्तः सन्पतति । एवं गर्भवासदुःखं निरूपितम्। उत्तानशायीत्यादिना शैशवदुःखं निरूपयति । उत अपि च उत्तानशायी डिम्भ इत्यर्थः ॥ ३९ ॥ अकिंचित्कः किंचिदपि कर्तुं असमर्थः । सर्वथा पराधीन इति भावः । अत एव लोकैर्मांसपेशीवव्द्यवस्थितः । दण्डपाणिभिः स्वजनैः ॥४०॥