निर्गते प्राणपवने देहो हन्त मृगीदृशः ।
यथाहि जायते नैव वीक्ष्यते पञ्चषैर्दिनैः ॥ ४८ ॥
महापरिभवस्थानं जरां प्राप्यातिदुःखितः।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ।। ४९ ॥
सन्नदन्तो मन्ददृष्टिः कटुतिक्तकषायभुक् ।
वातभुग्नकटिग्रीवाकरोरुचरणोऽबलः ॥ ५० ॥
गदायुतसमाविष्टः परिभूतः स्वबन्धुभिः ॥
निःशौचो मलदिग्धाङ्ग अालिङ्गेितवरोषितः ॥ ५१ ॥
त्वात्तथाप्यार्षत्वमेव गतिः । यद्यप्येवं तथापि मायया योषिन्मय्या मूढो युवा किमपि जगन्नेक्षते यथावन्न जानाति। किंतु स्त्रीमयमेव पशयतीत्यर्थः ॥ ४७ ॥ निर्गत इति । प्राणपवने निर्गते सति पञ्चभिः षड्भिर्वेति पञ्चषैर्दिनैः । मृगीदृशो देहो यथा हि जायते यामवस्थां प्राप्नोति तन्न वीक्ष्यते न पर्यालोच्यते । मूढेन यूनेति शेषः । उक्तं च “नारीस्तनभरनाभिनिदेशं दृष्ट्वा मायामोहावेशम् । एतत्सर्वं मांसविकारं मनसि विचारय वारंवारम्" इति ॥ ४८ ॥ वार्धकदुर्दशामाह—महापरिभवेति । महांश्चासौ परिभवस्तिरस्कारस्तस्य स्थानम् । अजहल्लिङ्गत्वात्तथैव विशेषणम् । “शैत्यं हि यत्सा प्रकृतिर्जलस्य” इतिवत् । एवंविघां जरां प्राप्यातिदुःखितस्तिष्ठतीति शेषः । जग्धं भक्षितमन्नं न जीर्यति जीर्णं न भवतीत्यर्थः ॥ ४९ ॥ सन्ना विशीर्णा दन्ता यस्य स तथा । कटुतिक्तादीन् रसान् व्याधिनिवृत्तये भुङ्क्त इति तथाभूतः । वातेन भुग्ना नम्राः कट्याद्यवयवा यस्य स तथा । अत एवाबलः बलहीनः ॥ ५० ॥ गदेति । गदानां रोगाणामयुतेन दशसहस्रेण समाविष्टो व्याप्तः । निःशौचः शौचशून्यः । मलेन दिग्धं लिप्तमङ्गं यस्य स तथा । आलिङ्गितं वरं महत्। उषितं दाहो येन स तथा । 'उष दाहे’ अस्माद्धातोर्भावे क्तः । एवमा-