पुटमेतत् सुपुष्टितम्



८६
[ अध्यायः ८
शिवगीता ।

 
ध्यायन्नसुलभान्भोगान्केवलं वर्तते चलः ।
सर्वेन्द्रियक्रियालोपाद्धास्यते बालकैरपि ॥ ५२ ॥
ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ ५३ ॥
नीयते मृत्युना जन्तुः परिष्वक्तोऽपि बन्धुभिः ॥
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ ५४ ॥
हा कान्ते हा धनं पुत्राः क्रन्दमानं सुदारुणम् ।
मण्डूक इव सर्पेण मृत्युना नीयते नरः ॥ ५५ ॥
मर्मसून्मथ्यमानेषु मुच्यमूानेषु संधिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ ५६ ॥


दिरोगग्रस्तत्वाद्बन्धुभिः स्त्रीपुत्रादिभिः परिभूतोऽनादृत इत्यर्थः ॥५१॥ ध्यायन्निति । असुलभान्स्वाद्वन्नमृदुशय्यादीन्भोगान्केवलं ध्यायंस्तिष्ठति । नतु भगवन्तं ध्यायतीति भावः । चलतीति चलः कम्पमानदेह इल्यर्थः । सर्वेषामिन्द्रियाणा यथायथं व्यापारलोपात् बालकैरपि हास्यते । उपहास्यत इत्यर्थः ॥ ५२ ॥ तत इति । ततो वार्धकानन्तरं मरणं तेन जातस्य दुःखस्य दृष्टान्तो नैवोपलभ्यते । यस्मान्मरणाद्भूतानि बिभ्यति। कीदृशानि। परां महतीं रुजं पीडां रोगरूपां दारिद्र्यादिरूपां वा प्राप्तान्यपि ॥ ५३ ॥ नीयत इति। बन्धुभिः स्त्रीपुत्रादिभिः परिष्वक्तोऽपि आलिङ्गितोऽपि । अत्र दृष्टान्तः-सागरेति । पद्भयां न गच्छतीति पन्नगः सर्पः ॥ ५४ ॥ हा कान्ते इति । यमदूतान्दृष्ट्वा सुतरां दारुणं यथा भवति तथा हा कान्ते इल्यादि क्रन्दमान अक्रोशन्नपि नरः मृत्युना सर्पेण मण्डूक इव नीयते ॥ ५५ ॥ मर्मस्विति । उन्मथ्यमानेषु । प्राणवायुना वियुज्यमानेषु उत्कृष्यमाणेष्विति पाठेऽयमेवार्थः । तथा हस्तपादादीनां च संधिषु मुच्यमानेषु सत्सु म्रियमाणस्य यद्दुःखं तन्मुमुक्षुभिः स्मर्यताम् । तस्माद्देहे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/89&oldid=301229" इत्यस्माद् प्रतिप्राप्तम्