जातं वापि शिवज्ञानं विश्वासं न भजत्यलम् ॥ १४ ॥
ऋषय ऊचुः ।
यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् ।
पौरुषं तत्र कस्यास्ति येन मुक्तिर्भविष्यति ॥ १५ ॥
सत्यं सूतात्मज ब्रूहि तत्रोपायोऽस्ति वा न वा ॥
सूत उवाच ।
कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥ १६ ॥
इष्टापूर्तानि कर्माणि तेनाचरति मानवः ।
शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥ १७ ॥
मेव नश्यतीत्यर्थः ॥ १३ ॥ जातमिति । अविच्छिन्नया भक्त्या जातमपि शिवज्ञानं विश्वासं न भजति । अप्रामाण्यशङ्कयाभिभूतं भवतीत्यर्थः ॥ १४ ॥ एवं श्रुत्वा ज्ञाने निराशाः सन्त ऋषय ऊचु:-यद्येवमिति । एवं प्रागुक्तरीत्या देवता यदि विघ्नं तनूभृतां देहिनामाचरन्ति तर्हि तत्र विघ्ननिवारणे कस्य पौरुषं सामर्थ्यमस्ति येन मुक्तिर्भविष्यति ॥ १५ ॥ सत्यमिति । तत्र देवकृतविघ्ननिवारणे उपायोऽस्ति वा न वेति संशये उपायोऽस्त्यथवा नास्ति इति सत्यमेकमुत्तरं ब्रूहीत्यर्थः । एवं मुनिभिः पृष्टे सुगमदुर्गमप्रकारभेदेनोपायमाह-कोटीति । कोटिसंख्याकेषु जन्मस्वर्जितपुण्यैरिति दुर्गमप्रकारभेदः । अस्मिन्प्रकृतजन्मनि शिवे भक्तिः प्रजायत इति सुगमप्रकारभेदः । संस्कारबलेन अनायासतः शिवे भक्तेर्जायमानत्वात् । अग्रे भक्तिदृढीकरणादिसाधनेष्वीश्वरप्रेरणा पुंप्रयत्नश्च द्वयमपि कारणम् । पुरुषप्रयत्नानङ्गीकारे विधिवाक्यमनर्थकं स्यात् । "दैवं पुरुषकारश्च सिद्धयतोऽन्योन्यसंश्रयात्” इत्यादित्यपुराणविरोधश्च । येन कारणेन द्वयमप्यपेक्षितं तेन कारणेनेत्यर्थः ॥ १६ ॥ इष्टेति । इष्टानि यागाः । पूर्तानि तडागारामादीनि । इष्टानि च पूर्तानि चेति द्वन्द्वे “अन्येषामपि दृश्यते" इति दीर्घः। इह बहुकृत-