दृष्टावाक्षिष्यमाणायां संज्ञया स्त्रियमाणया ।
मृत्युपाशेन बद्धस्य त्राता नैवोपलभ्यते ॥ ५७ ॥
संरुध्यमानस्तमसा महञ्चित्तमिवाविशन् ।
उपाहूतस्तदा ज्ञातीनीक्षते दीनचक्षुषा ॥ ५८ ॥
अयःपाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं तमीक्षते परितस्तथा ॥ ५९ ॥
हिक्कया बाध्यमानस्य श्वासेन परिशुष्यतः ॥
मृत्युना कृष्यमाणस्य न खल्वस्ति परायणम् ॥ ६० ॥
संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ ६१ ॥
विश्वासो न विधेय इति भावः ॥ ५६ ॥ दृष्टाविति । दृष्टावाक्षिप्यमाणायां यमदूतैरिति शेषः । ह्रियमाणया संज्ञया उपलक्षितस्य तात्कालिक्या यातनया निःसंज्ञस्येत्यर्थः । मृत्युपाशेन - बद्धस्य । एवंविधस्य जन्तोस्त्राता रक्षको नोपलभ्यत एव । तस्मात्तस्मिन्काले यस्त्राता ईश्वरः स चादावेव शरणीकरणीय इति भावः ।। ५७ ॥ संरुध्यमान इति । तमसा अज्ञानेन संरुध्यमानः । तथापि महच्चित्तं विवेकम्। चिती संज्ञाने भावे क्तः । आविशन्निव सावधानतां प्राप्तः सन्निव । ज्ञातिभिरुपाहूतः सन् तदा तस्यामवस्थायामपि ज्ञातीन्दीनचक्षुषा ईक्षते । संभाषणासमर्थत्वादीक्षणमात्रं करोति तदेतन्महतो विवेकस्य कार्यम् । तदभावे ईक्षणमपि दुःसाध्यमिति भावः । तस्मात्तस्मिन्काले ईश्वरध्यानार्थं यावज्जीवं ध्यानाभ्यासो विधेय इति व्यञ्जनम् ॥५८॥l। अयःपाशेनेति । कालेन कर्त्रा अयःपाशेन करणेन तमुक्तावस्थापन्नमात्मानं परितः सर्वतः कृष्यमाणमीक्षते । इदं महतो विवेकस्य फलं किमु वक्तव्यं तदा भगवच्चिन्तनम् ॥ ५९ ॥। हिक्कयेति । प्राणवायुगतिमान्द्यं हिक्का तस्या गतिप्राचुर्यं श्वासस्तेन च । परायणं रक्षकः ।। ६० ॥ संसार एव यन्त्रं भ्रमच्चक्रं तदारूढो यम-