किं करोमि क्व गच्छामि किं गृह्वामि त्यजामि केिम् ।
इतिकर्तव्यतामूढः कृच्छ्राद्देहात्त्यजत्यसून ॥ ६२ ॥
यातनादेहसंबद्धो यमदूतैरधिष्ठितः ॥
इतो गत्वानुभवति या यास्ता यमयातनाः ।
तासु यल्लभते दुःखं तद्वक्तुं सहते कुतः ॥ ६३ ॥
कपूंरचन्दनाद्यैस्तु लिप्यते सततं हि यत् ।
भूषणैर्भूष्यते चित्रैः सुवस्त्रैः परिवार्यते ।। ६४ ॥
अस्पृश्यं जायतेऽप्रेक्ष्यं जीवत्यक्तं सदा वपुः । ।
निष्कासयन्ति निलयात्क्षणं न स्थापयन्त्यपि ॥ ६५ ॥
दह्यते च ततः काष्ठैस्तद्भस्म क्रियते क्षणात् ।
भक्ष्यते वा सृगालेन गृघ्रकुकुरवायसैः ।
पुनर्न दृश्यते सोऽथ जन्मकोटिशतैरपि ॥ ६६ ॥
दूतैरधिष्ठित आक्रान्तः सन् । अतः परं क्व यास्यामीति दुःखार्तः । कालपाशेन योजित: बद्धः । ६१ । किं करोमीति । किं करोमीत्यादिकं किंचित्कालं चिन्तयित्वा तत इतिकर्तव्यतायां मूढः सन् कष्टाद्देहादसून्प्राणान्त्यजति ॥ ६२ ॥ ततः किमित्यत आह---यातनेति । इतोऽस्माल्लोकाद्वत्वा यमलोकमित्यध्याहारः । यातनायै देहो यातनादेहस्तेन संबद्धः सन् ताः प्रसिद्धाः यमयातनाः । या या । अनुभवति तासां मध्ये एकस्यां यातनायां यदुःखं लभतेऽनुभवति तत्किमपि वक्तुं कुतः सहते। एकयातनादु:खं वक्तुमशक्यं किमु वक्तव्यं सर्वयातनादुःखमिति भावः ॥ ६३ ॥ पूर्वशरीरस्य परिणाममाह-कर्पूरेति । परिवार्यते वेष्ट्यते ॥ ६४ । तदेव वपुर्क्जीवेन लिङ्गशरीरेण त्यक्तं सत्स्पर्शायोग्यं अप्रेक्ष्यं दर्शनायोग्यं च जायते । ज्ञातयो निलयाद्गृहान्निष्कासयन्ति क्षणमपि तु न स्थापयन्ति गृहे ॥ ६५ । दह्मत इति। संस्काराभावे सृगालेन जम्बुकेन गृध्रेण-