माता पिता गुरुजनः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा ।
एको यतो व्रजति कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः ॥ ६७ ॥
सायंसायं वासवृक्षं समेताः
प्रातःप्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वान्योन्यं तं च वृक्षं विहङ्गा
यद्वत्तद्द्वज्ज्ञातयोऽज्ञातयश्च ॥ ६८ ॥
मृतिबीजं भवेज्जन्म जन्मबीजं भवेन्मृतिः ॥
घटयन्त्रवदश्रान्तो बंभ्रमीत्यनिशं नरः ॥ ६९ ॥
गर्भे पुंसः शुक्रपाताद्यदुक्तं मरणावधि ॥
तदेतस्य महाव्याधेर्मत्तो नान्योऽस्ति भेषजम् ॥ ७० ॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशाब्रे शिवराघवसंवादे
विश्वरूपदर्शनं नाम अष्टमोऽध्यायः ॥ ८ ॥}}
कुक्कुरेण वायसेन वा भक्ष्यते । कुक्कुरः सारमेयः । अथ स देहः पुनर्न दृश्यते ॥ ६६ ॥ मातेति । मायोपमे ऐन्द्रजालिकरचितहस्त्यादिसदृशे जगति मम मातेत्यादिप्रतिज्ञा कस्य भवेत् । न कस्यापीत्यर्थः । अयं जीवः स्वकर्मपुरःसरः सन्नेक एव यतो व्रजति नतु मातापित्रादिभिः सह । तथाचानादौ संसारे सर्वेषां परस्परं मातृपितृभावोऽविशिष्ट इति भावः । जीवलोको मनुष्यलोकः विश्रामवृक्षेण सदृशः । विश्राम इत्यार्षः ॥ ६७ ।।॥ वृक्षसाम्यं विवृणोति---सायंसायमिति । तेन तेन पथेति शेषः । तद्वत्स्वस्वकर्मानुरोधेन कंचित्कालमेकत्र स्थित्वा यथायथं प्रयान्तीति भावः ॥ ६८ ॥ मृतिबीजमिति। बभ्रमीति पुनःपुनर्भ्राम्यति। यड्लुकेि रूपम् ॥ ६९ ॥ शुक्रपातादारभ्य मरणावधि यदुक्तं स चासावेष चेति कर्मधारयः ।