पुटमेतत् सुपुष्टितम्



९०
[ अध्यायः ९
शिवगीता ।

 

नवमोऽध्यायः ९

श्रीभगवानुवाच।


देहस्वरूपं वक्ष्यामि श्रृंणुष्वावहितो नृप ।
मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते ॥
मय्येवेदमधिष्ठाने लीयते शुक्तिरौप्यवत् ॥ १ ॥
अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः ।
असङ्गो निरहंकारः शुद्धं ब्रह्म सनातनम् ॥ २ ॥
अनाद्यविद्यायुक्तः सन् जगत्कारणतां व्रजे ॥ ३ ॥


तस्यै तस्येत्यर्थः । महाव्याधेर्भेषजं मत्तोऽन्यः पदार्थो नास्ति । भेषजशब्दो नित्यं नपुंसकः । ७० ॥ इतेि श्रीशिवगीताटीकायां बालानन्दिन्यामष्टमोऽध्यायः ॥ ८ ॥ अष्टमाध्यायोपक्रमे पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः स्वरूपं च कथमिति रामेण पृष्टं तत्रोत्पत्तिस्थितिविलया निरूपिताः । स्वरूपं तु इह प्राधान्येन निरूप्यत इति प्रतिजानीते--देहस्वरूपमिति । अवहितः समाहितमनाः शृणुष्व शूण्वित्यर्थः । तत्रादौ शरीरस्य विश्वान्त:पातित्वाद्विश्वोत्पत्तिलया मय्यधिष्ठान एवेति प्रतिपादयति--मत्त इतेि । मद्विषयकं यदज्ञानं तत्कार्यं विश्वं मद्विषयकज्ञानेन विलीयते । शुत्तयवच्छिन्नचैतन्यविषयकज्ञानकार्यं रजतं यथा शुक्तिसाक्षात्काराद्विलीयते तद्वत् । १ । नचैतावता मम विकारित्वमित्याह--अहं त्विति । अहंतु निर्मलोऽविद्यारहितः पूर्णास्त्रिविधपरिच्छेदविधुरः सच्चिदानन्दस्वरूपः । असङ्गः "असङ्गो ह्ययं पुरुषः" इति श्रुतेः । निरहंकारः कर्तृत्वाद्यहंकाररहितः शुद्धं ब्रह्म सनातनम् ।। २ ।।॥ एवंविधोऽप्यहं अनाद्यविद्यया युक्तः सन् जगत्कारणतां व्रजे व्रजामि । प्राप्नोमीति यावत् । कारणत्वं नाम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/93&oldid=206036" इत्यस्माद् प्रतिप्राप्तम्