पुटमेतत् सुपुष्टितम्



९१
बालानन्दिनीव्याख्यासहिता ।

 

अनिर्वांच्या महाविद्या त्रिगुणा परिणामिनी ।
रजः सत्वं तमश्चेति तद्गुणाः परिकीर्तिताः ॥ ४ ॥
सत्वं शुक्लं समादिष्टं सुखज्ञानास्पदं नृणाम् ।
दुःखास्पदं रक्तवर्णं चञ्चलं च रजो मतम् ॥ ५ ॥
तमः कृष्णं जडं प्रोक्तमुदासीनं सुखादिषु ॥ ६ ॥


कर्तृत्वम् ।। "जन्माद्यस्य यतः” इति सूत्रे तथा प्रतिपादनात् । नच कर्ता कुलालादिः कार्येषु घटादिष्वन्वेति तथा ब्रह्मणोऽपि कार्यान्वयो न स्यात् । तथात्वे 'तत्तु समान्वयात्' इत्यधिकरणविरोधः प्रसज्येतेति वाच्यम् ।। "सोऽकामयत' इति निमित्तत्वं "बहु स्याम्" इत्युपादानत्वं च ब्रह्मणः प्रतिपादितमाकरे। तथाचाभिन्ननिमित्तोपादानं ब्रह्मेति सिद्धान्तः । अविद्यया ब्रह्मणश्च संबन्धोऽप्याविद्यकोsनिर्वचनीय एव । तथाच प्रपञ्चो ब्रह्मापेक्षया विवर्तः मायापेक्षया परिणाम इति सिद्धान्तः । ३ । अनिर्वाच्येति । उपादानसमसत्ताकान्यथाभावत्वं परिणामत्वं वियदादीनामविद्यापरिणामित्वात् । स परिणामोऽस्या अस्तीतेि परिणामिनी । अनिर्वाच्या सतीतेि निर्वक्तुमशक्या ज्ञानबाध्यत्वात् । असतीत्यपि निर्वक्तुमशक्या जगद्रुरपेण प्रतीयमानत्वात्। अतएव सदसद्विलक्षणा । तदुक्तं भागवते । "ऋतेर्थं यत्प्रतीयेत न प्रतीयेत चात्मनेि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः।" इति । पुनः कीदृशी । त्रिगुणा । तानेव गुणानाह--रज इति। महाविद्येत्यनेन मूलाज्ञानमेव जगदुपादानं नतु मूलज्ञानं शुक्तिज्ञानेन रजताभासनिवृत्तौ एकजीवाज्ञाननिवृत्तौ वा सकलप्रपञ्चनिवृत्त्यापत्तेः ॥ ४ ॥ गुणानां प्रत्येकं कार्यं दर्शयति--सत्वमिति । नृणां सुखाकारज्ञानाकारवृत्त्योः कारणं सत्वम् ! रजः चञ्चलं रक्तवर्णं दुःखास्पदं दुःखकारणम् ॥ ५ ॥ तमः कृष्णवर्णं जडं उदासीनं सुखादिषु । सुखादिजननासमर्थमित्यर्थः । तेच गुणाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/94&oldid=206038" इत्यस्माद् प्रतिप्राप्तम्