अतो मम समायोगाच्छक्तिः सा त्रिगुणात्मिका ॥
अधिष्ठाने च मय्येव भजते विश्वारूपताम् ।
शुक्तौ रजतवद्रज्जौ भुजङ्गो यद्वदेव तु ॥ ७ ॥
आकाशादीनि जायन्ते मत्तो भूतानि मायया ।
तैरारब्धमिदं सर्वं देहोऽयं पाञ्चभौतिकः ॥ ८ ॥
परस्पराभिभवात्मकाः ।। "रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥' इति श्रुतेः ॥ ६ ॥ अत इति । यतः कारणात्स्वतोऽसङ्गोदासीनस्य सदा स्वानन्दपूर्णस्यासत्यानेकविधदुःखात्मकप्रपञ्चरचनानुपपत्या “मायामात्रमिदं द्वैतमद्वैतं परमार्थतः" इति श्रुत्या न वास्तवी शक्तिः कल्प्यते । अतः कारणान्मम समायोगात् आविद्यकसंबन्धान्मदीयशक्तिर्माया अनिर्वचनीयत्वेन प्रसिद्धा । त्रिगुणात्मिका मय्येवाधिष्ठाने विश्वरूपतां नानाविधस्वरूपत्वं भजते । यथोक्तानुपपत्तिसिद्धार्थानुवादिनी श्रुतिरपि "अजामेकाम्" इत्यादिः । ननु जगच्चेन्मायापरिणामस्तदाधारं चेद्ब्रह्म तर्ह्याधेयजगद्रूपेण धर्मेण तस्याधिकारित्वं स्यात्। “उपयन्नुपयन्धर्मो विकरोति हि धर्मिणमू' इति न्यायादित्याशङ्क्य जगतः कल्पितत्वेन न स्वाश्रयविकारहेतुत्वमिति दृष्टान्तेन प्रतिपादयति--शुक्ताविति ।। ७ ।।॥ विश्वरूपतां भजत इत्युक्तं तदेव विवृणोति । आकाशादीनीति । यद्यपि महत्तत्त्वादीनि वक्तव्यानि तथापि “तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इति श्रुतिमनुसृत्योक्तम् ॥ तदुक्तम् 'क्रमेण युगपञ्चैषा सृष्टिर्ज्ञेया यथाश्रुति । विविधश्रुतिसद्भावाद्विविधस्वप्नदर्शनात्।” इतेि । तैराकाशादिभिरिदं सर्वं ब्रह्माण्डमारब्धमयं पाञ्चभौतिको देहोऽप्यारब्ध इत्यर्थः । अत्रेदं तात्पर्यम् । मायातत्कार्यस्याधिष्ठानं ब्रह्मैव परिणामिनी माया उपादानं तूभयमपेि । तत्र स्वबुद्धिबाध्यकार्याधारत्वमधिष्ठानत्वम् । रजतस्य शुक्तिवत्। स्वबाधकं बाध्यकार्याधारत्वं परिणामित्वं तादात्म्यवत्कारणमु-