पुटमेतत् सुपुष्टितम्



९३
बालानन्दिनीव्याख्यासहिता ।

 

पितृभ्यामशितादन्नात्षट्कोशं जायते वपुः ॥
स्नायवोऽस्थीनि मज्जा च जायन्ते पितृतस्तथा ॥ ९ ॥
त्वङ्मासशोणितमिति मातृतश्च भवन्ति हि ।
भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
रसजा आत्मजाः सप्त संभूताः स्वात्मजास्तथा ॥ १० ॥
मृदवः शोणितं मेदो मज्ज्ञा प्लीहा यकृद्गुदम् ।
हृन्नाभीत्येवमाद्याः स्युर्भावा मातृभवा मताः ॥ ११ ॥
श्मश्रुरोमकचस्नायुशिराधमनयो नखाः ॥
दशनाः शुक्रमित्यादिस्थिराः पितृसमुद्भवाः ॥ १२ ॥


पादानमिति । तादात्म्यं तु भिन्नत्वे सत्यभिन्नत्वताकत्वमिति विवेकः । ब्रह्म तु विवर्तोपादानं माया तु परिणामोपादानं वेदितव्यमिति दिक् । ८ । पितृभ्यामिति । अशिताद्भुक्तादन्नात् षट् कोशा यस्मिन् तथाभूतं वपुः ॥ ९ ॥ त्वङ्मासेति । भावयन्ति शरीरमिति भावास्तस्य शरीरस्य । तथाच गर्भोपनिषदि श्रूयते "एतस्मिन्षाट्कौशिके शरीरे त्रीणि पितृतस्त्रीणि मातृतः अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः" इति ॥ १० । मृदव इति , तत्र मृदवो भावाः मता इत्यन्वयः । के ते शोणितं मेदो वपा। ‘हृन्मेदस्तु वपा वसा” इत्यमरः । मज्जा सारभूतो धातुः । प्लीहा गुल्मः ! यकृत्कालखण्डं । गुदमपानम् । हृत् हृदयम् । मज्जाप्लीहानौं नान्तपुंलिङ्गौ । नाभी स्त्रीलिङ्गः ।। "कृदिकारादक्तिनः" इति ङीप् ॥ ११ । श्मश्रु पुरुषस्य मुखे रोमवृद्धिः । रोमशिरसोऽन्यत्र शरीरे । कचाः शिरोरुहाः । `रुनायुः वसापरपर्यायो धातुविशेषः । शिरा धमनय इति । यद्यपि शिराधमन्योः पर्यायत्वं तथापि सूक्ष्मनाडी शिरा स्थूला तु धमनीति भेदो ज्ञेयः । नखाः प्रसिद्धाः । दशना दन्ताः । शुक्रं रेतः । इत्यादयः स्थिरा बहुकालावस्थायेिनः पितृसमुद्भवा ज्ञेयाः भावा इति शेषः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/96&oldid=206041" इत्यस्माद् प्रतिप्राप्तम्