पुटमेतत् सुपुष्टितम्



९४
[ अध्यायः ९
शिवगीता ।

 

शरीरोपचितिर्वर्णो वृद्धिस्तृप्तिर्बलं स्थितिः ।
अलोलुपत्वमुत्साह इल्यादीन्रसजान्विदुः ॥ १३ ॥
इच्छा द्वेषः सुखं दु:खं धर्माधर्मों च भावना।
प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्येवमात्मजाः ॥ १४ ॥
ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
रसनं घ्राणमित्याहुः पञ्च तेषां च गोचराः ॥ १५ ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ॥
वाक्कराङ्घ्रिगुदोपस्थान्याहुः कर्मेन्द्रियाणि हि ॥ १६ ॥
वचनादानगमनविसर्गतयः क्रमात्।
कमेंन्द्रियाणां जानीयान्मनश्चैवोभयात्मकम् ॥ १७ ॥


। १२ ॥ शरीरेति। उत्पत्तिकाले यत्स्थौल्यं सा शरीरस्योपचितिः। वर्णो गौरश्यामत्वादिः । वृद्धिः क्रमेणोपचयः । बलं सामर्थ्यं । स्थितिः अवयवदार्ढ्यम्। अलोलुपत्वं अकार्पण्यम्। उत्साह उद्योगः इत्यादीन्ररसजान्धातुविशेषजान्विदुः। धातुविशेषविक्लवतायामुक्तकार्यसमुदायस्यापि वैक्लव्यं द्रष्टव्यम् ॥ १३ । इच्छेति । इच्छाप्रभृतयो भावा आत्मजाः प्रारब्धकर्मजन्या नतु मातृपितृजन्या इत्यर्थः । द्वेषः प्रज्वलनाल्मकः क्रोधः । सुखं अनुकूलवेदनीयम्। दु:खं प्रतिकूलवेदनीयम्। धर्मो विध्यपरपर्यायः । अधर्मो निषेधापरपर्यायः । भावना स्मृतिहेतुः संस्कारः । प्रयत्नः कृतिः भवितुर्भवनानुकूलो भावकव्यापारविशेष इति यावत् । ज्ञानमर्थप्रकाशः । आयुः प्राणधारणप्रयोजकीभूतः कालविशेषः । इन्द्रियाणि चक्षुरादीनि । एते भावाः स्वस्वकर्मानुसारिण इत्यर्थ: ॥ १४ । गोचरा विषयाः ॥ १५ । तानेवाह--शब्द इति । कर्मेन्द्रियाण्याह-वागिति । १६ ॥ वचनादयस्तेषां कर्मेन्द्रियाणां क्रियाः जानीयादिति व्यवहितेनान्वयः। मनोऽन्तःकरणवृत्तिः तदुभयात्मकं ज्ञानात्मकं कर्मात्मकं चेत्यर्थः ॥ १७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/97&oldid=206042" इत्यस्माद् प्रतिप्राप्तम्