क्रियास्तेषां मनोबुद्धिरहंकारस्ततः परम् ॥
अन्तःकरणमित्याहुश्चित्तं चेति चतुष्टयम् ॥ १८ ॥
सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रियाः ।
स्मृतिभीतिविकल्पाद्या बुद्धिः स्यान्निश्चयात्मिका ।
अहं ममेत्यहंकारश्चिर्त्त चेतयते यतः ॥ १९ ॥
सत्वाख्यमन्तःकरणं गुणभेदात्रिधा मतम् ।
सत्वं रजस्तम इति गुणाः सत्वात्तु सात्विकाः ॥ २० ॥
अास्तिक्यशुद्धिधर्मैक्रुचिप्रभृतयो मताः ॥
रजसो राजसा भावाः कामक्रोधमदादयः ॥ २१ ॥
एकमन्तःकरणं वृत्तिभेदाच्चतुर्विधं मन इति, बुद्धिरिति, अहंकार इति, चित्तमिति च व्याख्यायत इत्यर्थः ।। १८ । एकस्यैवान्तःकरणस्यावस्थाचतुष्टयेन संज्ञाचतुष्टयमुक्तम् । नन्वन्तःकरणस्येन्द्रियत्वमनुपपन्नं असाधारणविषयाभावात्। नैयायिकादिभिर्मानसत्वेनाभ्युपगतानां सुखादीनामस्मत्सिद्धान्ते साक्षिमात्रभास्यत्वादित्याशङ्कयाह-सुखमिति । अन्तःकरणोपहितस्यैव साक्षितया साक्षिभास्येषु सुखादिषु चैतन्योपाधित्वमात्रेणान्तःकरणस्येन्द्रियत्वमुच्यते । अनेन ज्ञानेन्द्रियत्वमुक्तम् । स्मृतिभीतिप्रभृतयो मनसः क्रिया इत्यनेन कर्मेन्द्रियत्वं समर्थितम् । तथाच मनश्चैवोभयात्मकमित्युक्तं सुस्थम् । बुद्ध्यादीनां लक्षणान्याह-बुद्धिरिति । निश्चयात्मिका बुद्धिः । अहंममेत्यभिमानात्मकोऽहंकारः । यतः कारणादतीतानपि पदार्थाश्चेतयते स्मारयति तच्चित्तम् । मनसस्तु संकल्पादिकं लक्षणम् । तदुक्तम्-"मनोबुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयोः निश्चयो गर्वः स्मरणं विषया इमे ॥' । विषयास्तत्तल्लक्षणानील्यर्थः tl १५ ॥ सत्वाख्यामिति । अन्त:करणे यन्तदेव सत्वाख्यम्। सत्वापरपर्यायकमेित्यर्थः । तत्तु सत्वादिगुणभेदाद्भिद्यत इत्यर्थः । के ते गुणास्तत्राद्द-सत्वमिति ॥ २० ॥ उपादानीभूताविद्या गुणभेदा-