प्रत्यग्दृशा प्राक्तनपुण्ययोगादाप्तोपदेशैरनुमानतश्च ।
क्रमात् द्युलोके बहलीबभूव कदम्बकान्तारकथाप्रसङ्गः ॥ ६३ ॥
दूरात् प्रणेमुः कतिचिद् वनं तदारात् परे नीपतरूनपश्यन् ।
विचिक्युरेके तदनुप्रविश्य धन्याः परे तद् ददृशुश्च लिङ्गम् ॥ ६४ ॥
आनन्दर्जैरश्रुभिरभ्यषिञ्चन्ना नर्चुरप्यक्षिभिरेव फुल्लैः ।
न्यवेदयन्तापि निकामधौतमात्मानमानन्दसुधाप्लुतं ते || ६५ ॥
गृहत्सु युष्मास्वपि गूढमेतद्रहस्यमद्राक्ष्म वयं किलेति ।
अनुश्रवान् केचिदुपालभन्त केचिद्विधिं केऽपि शिलादसुनुम् ॥ ६६ ॥
वागीश्वरा वाग्भिरपूजयन्त ध्यानाध्वनीना हृदि दध्युरेनम् ।
बाह्यार्चनामात्र परायणास्तु सामग्रयलाभादलभन्त खेदम् ।। ६७ ।।
अभ्रापगावारिभिरभ्यषिञ्चत् सुधान्धसः सुन्दरनाथलिङ्गम् ।
तत्रासमर्था मुनयो महीन्यास्तस्तम्भिरे केवलमश्रुपूर्णाः ॥ ६८ ।।
आलक्ष्य पूजाव्यवसाय मेपामातभावात् परमं च खेदम् ।
दीनानुकम्पानिधिरिन्दुमौलिर्दिव्यं सरन्तत्र विधातुमैच्छत् ॥ ६९ ॥
स दक्षिगणस्यां दिशि बाणापाते सरो विधायन्नमृतांशुमौलिः ।
सकृद्विलासादिव निर्बिभेद तीक्ष्णैन भूमिं त्रिशिखाञ्चलेन ॥ ७० ॥
आविष्य शूलं भुवि सद्य एव पादाङ्गदं पश्यति सुन्दरेशे ।
भक्तस्य ते न क्षतिरस्ति जातु शेषः सुखीत्याह सुता हिमाद्रेः ॥ ७१ ॥
आविध्यमानात् त्रिशिखाभिघातैरधः कपालाज्जगदण्डभित्तेः ।
अम्भो यदण्डावरणायितं तदुहुह्लुदं तत्क्षणमुद्धभूव ॥ ७२ ॥
त्रैविक्रमे कर्मणि शार्ङ्गिणापि प्रवर्तितं यत् किल पूर्वमम्भः ।
अधोगतिं प्राप तदेव लेभे शिवास्त्रयोगाद् गतिमित्थम् र ॥ ७३ ॥
दिदृक्षमाणेन महाद्भुतं तच्छिवेन यावन्नमितो न गौलिः ।
तावत् सरस्तत्कृतमुत्तरङ्गं ततः स्रवन्त्या विबुधस्रवन्त्या ॥ ७४ ॥
१. पादाङ्गद तप शेषम् २ पश्यतीति | शूउस्यापाताल प्रवेशादादिशेपाशरसि तद्-
भिघातशङ्कया दर्शनम् ३. इत्याहेति । इत्युक्ला भर्तुः शङ्कामपनुनोदेत्यर्थः ४. अधोगतिं
भोगवतीसंज्ञया पाताळगति अथ च दुर्गतिम्.