सरस्त्रिशूलप्रभवं पुरारेस्तथात्यगाधं तदभूत् क्षणेन ।
यथात्र देवोऽवतरन् प्लवेत त्रिविक्रमः क्रान्तजगत्रयोऽपि ॥ ७५ ॥
नौर्वान्न रामात्र च कुम्भोनेर्यस्यास्ति भीतिस्तदवेक्ष्य तीर्थम् ।
आश्वासमाजग्मतुरर्णवत्थौ शश्वतमौ तावपि कूर्ममीनौ ॥ ७६ ॥
आविर्भवतीः सलिले समन्तादम्भोजिनी रुत्पलिनीश्च तस्मिन् ।
दृशौ पिबन्त्यौ परमस्य धाम्न प्रीति परां प्रापतुरर्कचन्द्रौ ॥ ७७ ॥
त्रैगुण्यरूपं त्रिशिखं हि शम्भोग्धीरा जगत्कारणमामनन्ति ।
तत्सम्प्रसूतेऽपि सरस्यमुप्मिन् का हेतुचिन्ता कमलोत्पलानाम् ॥ ७८ ॥
शैवालनीलं बहिरम्बुजाभमन्तर्घटैरुद्भियमाणमच्छम् ।
त्रैगुण्यरूपं त्रिशिखोद्भवं तदम्भो निजान् हेतुगुणान् व्यनक्तेि ॥ ७९ ॥
प्राचीनमब्जं परिहृत्य सद्यो जग्राह भानुर्जलजं तदीयम् ।
अत्रैव लक्ष्मीः स्थितिमाबबन्ध चतुर्मुखोऽतश्चकमे प्रसूतिम् ॥ ८० ।।
आचामत स्नात सरस्यमुष्मिन्नस्याम्भसा मामभिषिञ्चतेति ।
देवान् महर्षीनपि चान्वगृह्णाद् वाचा भगिन्या विभुरागमानाम् ॥ ८१ ॥
स्वातं शूलशिखाञ्चलेन सलिलैः पूतं जटातीर्थजैः
प्रत्यक्षेण च शाम्भवेन विधिना प्राप्तं परां ग्राह्यताम् ।
तीर्थं तत् प्रतिपद्य तापसगणा भागीरथीं तत्यजु-
र्मन्दं चादरमादधुः सुरगणा मन्दाकिनीस्रोतसि ॥ ८२ ॥
- इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
- शिवलीलार्णवे द्वितीयः सर्गः
- इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
- अथ तृतीयः सर्गः ।
अथ जातु पुरन्दरः सुधर्मामधितिष्ठन् सह सप्तभिर्दिगीशैः ।
अविजेयमनुक्षणोपाचित्या बिमतं वृत्रममन्त्रयद् विजेतुम् ॥ १ ॥
चतुरङ्गमिदं महद् बलं नश्चतुरं गन्तुमहो न यत्समीपम् ।
न बलं भुजयोः क्रमेत तस्मिन्नवशादञ्जलिबन्धशिक्षितौ यौ ॥ २ ॥