दत्तशापतया किञ्चिद् दग्धेन्धनमिवानलम् ।
प्रशाम्यन्तममुं* देवाः प्रणिपातैरसान्त्वयन् ॥ १४ ॥
सम्भ्रमोद्वेगकार्पण्यस्तम्भप्रणतिसान्त्वनैः ।
प्रसादाभिमुखस्तेषां प्राह माहेश्वरो मुनिः ॥ १५ ॥
पाण्ड्यो भिनत्तु तर्ह्यस्य मौलिं मकुटलक्षणम् ।
सुन्दरेशार्चनान्तश्च शापः स्वर्दन्तिनोऽस्त्विति ॥ १६ ॥
महेन्द्रसविधावासवासनारसिकश्चिरात् ।
महेन्द्र एव शैलेन्द्रे जन्म लेभे सुरद्विपः ॥ १७ ॥
आमूलभग्नदन्तः स खेलासु बिभिदे भुवम् ।
धर्तुकाम इव स्कन्धे तामेबोद्धृत्य सार्णवाम् ॥ १८ ॥
मदगन्धेन धावन्ति येषामन्ये मतङ्गजाः ।
कर्णानिलेन ते तस्य कलभस्यापि दुद्रुवुः ॥ १९ ॥
स सिंहान् शुण्डयादाय चिक्षेप तृणपूलवत् ।
पादैरेव महाग्राहान् भेकमर्द ममर्द च ॥ २० ॥
ग्राहा ग्रसन्ते हर्यक्षा घ्नन्ति गृह्णन्ति मानवाः ।
इत्युच्यमानं कळभैराश्चर्यमिव सोऽ शृणोत् ॥ २१ ॥
सरित्सरांसि पीतानि सकृदाकृप्य शुण्डया |
मदधारापदेशेन मन्ये तस्य प्रसुस्रुवुः ॥ २२ ॥
स मत्तः सञ्चरन् पृथ्वीं चरणैरपचस्करे ।
लघूकरिप्यन्निव तां दिग्गजानुजिघृक्षया ॥ २३ ॥
अजानिव गजानन्यानादायादाय चिक्षिपे ।
स एव पुङ्गजस्तत्र वशास्तस्याभवन् परे ॥ २४ ॥
स खेलन् सागरस्याम्भः क्षिपन् मन्दाकिर्नः प्रति ।
दयया चिरविश्लिष्टौ दम्पती तावयोजयत् ॥ २५ ॥
१. अपचस्करे आलिलेख.
- 'मुनिं' इति खपुस्तके पाठ:. + 'करोत्' इति खपुस्तके पाठ: