ऐरावतेश्वरं लिङ्गमैरावतविनायकम् ।
स तीरे सरसस्तस्य स्थापयित्वाभ्यपूजयत् ॥ ३८ ॥
पुरन्दरेश्वरं नाम पूर्वतः सुन्दरेशितुः ।
स्वामिनामाङ्कितं लिङ्गं स्थापयामास चापरम् ॥ ३९ ॥
प्रहितः सुन्दरेशेन स हि तत्र चिरं वसन् ।
पुनर्जगाम स्वं धाम पुरुहूतेन चादृतः ॥ ४० ॥
कदम्बविपिनात् प्राचि कल्याणनगरे ततः ।
कालेन महता जज्ञे कश्चिद्वैश्यो धनञ्जयः ॥ ४१ ॥
अस्त्राय गत्वा देवेन कृतयुद्धं गतस्पृहः ।
कौरव्यमत्यशेतायमूरव्यस्तु धनञ्जयः ॥ ४२ ॥
तस्य भूमिस्पृशो भक्तिं तरुणेन्दुशिखामणौ ।
भक्तिरागन्तुकान्येषां कथं वानुकरिष्यति ॥ ४३ ॥
(दँशैकादशिकाः१) प्रायो वणिजश्चतुरा अपि ।
एकं दत्वेह सोऽमुत्र तत्सहस्रमुपार्जयत् ॥ ४४ ॥
परक्षेत्रपरामर्शपरिशङ्की धनञ्जयः ।
नोत्ससर्ज बहिर्जातु स गोषड्गवमात्मनः ॥ ४५ ॥
वृत्तिः सा हि विशां यत्तु भुवमुल्लिख्य जीवनम् ।
स तु तत् कर्म तत्याज दिवर्मुल्लिख्य केवलाम् ॥ ४६॥
अक्रीणीतैव पुण्यानि व्यक्रीणीत न जात्वपि ।
समयेषूपयोगाय *सर्वमेव जुगोप सः ।। ४७ ।।
स बहून् विषयान् गत्वा वाणिज्याय धनञ्जयः ।
निवृत्तो नीपकान्तारसमीपं सायमाययौ ॥ ४८ ॥
१. कौरव्यं कुरुवंश्यं भनञ्जयमर्जुनापरपर्यायम् २ मिनिस्पृश् इति विशेषणादाज-
न्मसिद्धां भक्तिमित्यर्थः ३. 'दशका: शतिकाः' इति पाठां वेत् । दशै-या वृद्धिरायो लाभो
वा दीयते दशका दशवृद्ध्याद्युपार्जका इत्यर्थः । एव शतिकाः शतायुपार्जकाः । दशशतब्दा-
भ्यां 'चतुर्थ्यर्थ उपसङ्ख्यानम्' (५-१-४७) इति चतुर्थ्यर्थे कन्ठनौ. ४. गोषड्गवं इन्द्रिय-
षट्कम् अथ च पशुषट्कम् । गोशब्दात् 'षट्वे पड्गवच्' ५. उल्लिख्याभिसन्धाय.
- 'सङ्गृत्यैव' इति खपुस्तके पाठः.