पृष्ठम्:शिवलीलार्णवः.djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
चतुर्थः सर्गः।


सोमवारोपवासेन सोऽध्वखेदेन तावता ।
विप्रयोगेण सार्थाच्च विव्यथे केवलं तदा ॥ ६२ ॥
नोन्नतानि न निम्नानि न नम्रा न च पादपाः ।
सर्वमेकमभात् तस्य सान्निध्यादिव शाम्भवात् ॥ ६३ ॥
अश्रौषीद श्रुतचरममृतस्येव निर्झरम् ।
गानमातोद्यसम्भिन्नं गन्धर्वाणामदूरतः ॥ ६४ ॥
स तच्छब्दानुसारेण सम्प्रसर्पञ्छनैः शनैः ।
दयया देवदेवस्य दिव्यं चक्षुरधारयत् ॥ ६५ ॥
स दिव्यलिङ्गमभितः सन्ददर्श सुरानृषीन् ।
ध्यायतो गायतः सामान्यर्चतश्चाभिषिञ्चतः ॥ ६६ ॥
ननृतुः प्रमथाः क्वापि जगुः सामानि सामगाः ।
ननृतुर्देवसुदृशो जगुरन्यत्र किन्नराः ॥ ६७ ॥
कमलैः कनकाब्जिन्या विमलैरुभयैरपि ।
स सुरैः सार्धमानर्च शर्वाणीचन्द्रशेखरौ ॥ ६८ ॥
प्रभातायां च शर्वर्या प्रवृत्ते जनचङ्क्रमे ।
स यत्रैक्षिष्ट देवर्षीस्तत्रैक्षिष्ट तरून् मृगान् ॥ ६९ ॥
स तु तेनाद्भुतेनैव निर्वृत्तामृतपारणः ।
व्रताङ्गं पारणां कर्तुं प्राप नेदीयसीं पुरीम् ॥ ७० ॥
द्रमिडान्वयमूर्धन्यो द्वितीय इव वासवः ।
प्रशशास महीं यत्र पार्थिवः कुलशेखरः ॥ ७९ ॥
सङ्गम्य बन्धुभिः सार्धं विश्रम्य च यथासुखम् ।
वृत्तं विज्ञापयामास राज्ञे सर्वं स्वमद्भुतम् ॥ ७२ ॥
स जातु पुरुषं कञ्चिञ्चन्द्रचूडजटाधरम् ।
निद्राणोऽन्तर्दृशाद्राक्षीन्नृपतिः कुलशेखरः ॥ ७३ ॥
नन्वस्ति नगरादस्मात् पश्चिमं नीपकाननम् ।
वन्यैर्मृगगणैः सार्धं वसामोऽत्र चिरं वयम् ॥ ७४ ॥
तद्वनं नगरीकृत्य तदेवाधिवसन् स्वयम् ।
कुलमुद्धृत्य वत्स! त्वं कुरु नामेदमर्थवत् ॥ ७५ ॥