इत्युक्तान्तर्हिते तस्मिन्निन्दु चूडे दयानिधौ ।
प्रत्यबुध्यत संहृष्टः प्रत्यूषे कुलशेखरः ॥ ७६ ॥
अद्भुतं स्वप्नवृत्तान्तमाप्तेषु च महत्सु च ।
आवेदयन् नृपः प्रातरभ्यनन्द्यत तैरपि ॥ ७७ ॥
निश्चित्यानुग्रहं शम्भोर्निर्मित्सुर्विपिनं पुरम् ।
सम्प्रतस्थे महीपाल: सावरोधः सबान्धवः ॥ ७८ ॥
प्रस्थितम्याग्रतो वामं प्रवृत्तस्तस्य खञ्जनः ।
कटाक्ष इव मीनाक्ष्याः कलयन् भावि मङ्गळम् ॥ ७९ ॥
स कदम्बवनं प्राप्य सन्ददर्श महाद्भुतम् ।
ह्रैमप्राकारसम्बाधमैन्द्रं धाम महेशितुः ॥ ८० ॥
स दृष्ट्वा साम्बमीशानं सम्प्रार्थ्य च गणाधिपम् ।
न्ययुङ्क्तं शिल्पिनो दक्षान्निर्मितसुर्नगरं नृपः ॥ ८१ ॥
सर्वे ते विश्वकर्माणः सर्वे कुशलतामयाः ।
समेत्य मन्त्रयाञ्चक्रुः शिल्पिनः पुरकर्माणि || ८२ ||
स्वस्तिकं सर्वतोभद्रं मण्डलं दीर्घवृत्तकम् ।
निर्मित्समाना नगरं ते विप्रावादिपुर्मिथः ॥ ८३ ॥
शिल्पिप्वेक इवागत्य सिद्धः स्वप्नेक्षितः पुरः ।
इतिकर्त्तव्यतां तेषामुपादिक्षत् प्रभोः पुरः ॥ ८४ ॥
स्वप्नदर्शनसंवादि तद्रूपं तस्य चिन्तयन् ।
यावद् ददर्श नृपतिस्तावदन्तधत्त मः ॥ ८५ ॥
पश्यन्ननुग्रहं शम्भोः स्वप्नजागरयोः समम् ।
उत्सेहे स तु भूयोऽपि पार्थिवः पुरकर्मणि ॥ ८६ ॥
अपि तद्विपिनं सान्द्रमज्ञानालोकसङ्कथम् ।
शासनात् पाण्ड्यनृपतेर्जातं जाङ्गलवत् क्षणात् ॥ ८७ ॥
तपनेन्दुकरालीढे तस्मिन् दिष्ट्या वनोदरे ।
ब्रह्मचर्यं जहुश्वक्रा दुर्भिक्षं च चकोरिकाः ॥ ८८ ॥
१. जाङ्गलवत् तरुशून्यप्रदेशवत.
- 'क्षत्व' इति खपुस्तकं पाठ:.