पृष्ठम्:शिवलीलार्णवः.djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
पञ्चमः सर्गः।


अथ पञ्चमः सर्गः ।



सं इत्थमाराधितचन्द्रशेखरप्रसादसम्पत्परिपाकसम्भृतम् ।
कुलावतंसं कुलशेखरो नृपश्चिराय लेभे मलयध्वजं सुतम् ॥ १ ॥
स पांसुकेलीष्वपि शङ्करालयान् प्रकल्पयन् ब्रह्मपुरीश्च सर्वतः ।
प्रपञ्चमातामहतापदोचितं नरेन्द्रसूनुर्व्यहरन्म+हायशाः ॥ २॥
अथोपनीतोऽधिजगे नृपात्मजस्त्रयीं मुनेः कुम्भभवात् पुरोधसः ।
समं महास्त्रैर्धनुरागमं पितुः स्वतश्च भक्ति शिवयोरचञ्चलाम् ॥ ३ ॥
अशेषविद्यानिधिमात्तयौवनं कुमारमेनं कुलशेखरो नृपः ।
युयोज दारक्रियया कुलार्हया श्रियेव धर्म क्षमयेव विक्रमम् ॥ ४ ॥
नृपस्य काञ्चीपुरनेतुरात्मजा महाशया काञ्चनमालिकाभिधा ।
नरेन्द्रसूनोर्गृहिणीषु वल्लभा बभूव तारास्विव रोहणी विधोः ॥ ५ ॥
पुरा हि विश्वावसुनामशालिनो बभूव गन्धर्वपतोरयं सुता ।
प्रसाद्य गौरीं जगदेकमातरंःममैधि कन्येत्यवृणीत या वरम् ॥ ६ ॥
सुशीलतां सुन्दरतामिवोज्ज्वलां दयार्द्रतां भृत्यजनेषु ते इव ।
दधे पुनस्ता इव भक्तिमश्विरे मनस्विनी काञ्चनमालिका तदा ॥ ७ ॥
सुतानिव स्वान् परिपुष्णती जनान् सभाजयन्ती श्वशुरौ शिवाविव ||
पतिं तु पूर्वेधुरिवापरेद्युरप्युपाचरद् दैवतजीविताधिकम् ॥ ८ ॥
पतिव्रता धर्मपथप्रवर्त्तिका सती च भर्त्तुर्वपुरर्धमेव सा ।
शरीरमात्मा हृदयं च जीवितं दृशौ च जज्ञे दयितस्य सा पुनः ॥ ९ ॥
महत्सु कार्येष्वमहत्सु वा ययोः कदापि वैमत्यकथापि नाभवत् ।
अभूत् तयोरेव मिथोऽनुरागिणोरनङ्गमूलः कलहः स केवलम् ॥ १० ॥
स युक्तदाम्पत्यसुनिर्वृतं सुतं स्वतो विनीतं गुरुभिश्च स..1. !
त्रिलोकरक्षाक्षमबाहुविक्रमं जनेश्वरः प्रेक्ष्य चिराय निर्ववौ ॥ ११ ॥
भृतां चिराय त्रिजगधुरंन्धरे धुरं धरायास्तनयेऽवरोपयन् ।
स्वतः स्थितं धर्मपथेऽपि तं पुनः शशास धर्म सुतवत्सलो नृपः ॥ १२ ॥



+ 'महाशयः' इति खपुस्तके पाठः.