पृष्ठम्:शिवलीलार्णवः.djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
शिवलीलार्णवे


महत् कुलं नस्त्वमवैषि विश्रुतं महेशचूडामणिसम्भवं शुचि ।
अनक्षजिद्भिर्मनसापि दुर्भरामवैषि वत्स ! त्वमिमामपि क्षमाम् ॥ १३ ॥
नवोढयापि प्रकृतिप्रगल्भया श्रियैव तावत् प्रथमं विमोहिताः ।
न जानते किञ्चिदसाधु साधु वा निसर्गतस्तात ! नृपालसूनवः ॥ १४ ॥
प्रसञ्जयन्ति प्रथमं विमार्गगांस्ततः क्रमेण स्तुवते च तान् पुनः ।
प्रवर्त्तयन्त्यप्यपथे शनैः प्रभुं खलाः स्वकार्यैकपराः समीपगाः ॥ १५ ॥
उपक्षिपन्तश्चकिता इवादितो निषिध्यमाना इव कैश्चिदन्तरा ।
सुखेन दोषं द्रढयन्ति साधुषु स्तुवन्त एव स्वगिरा दुराशयाः ॥ १६ ॥
परं कृतज्ञा इव पण्डिता इव प्रभोहितैकप्रवणा इव स्वतः ।
जगत्तटस्था इव राज्ञि बालिशे जनाः स्वमर्थ घटयन्त्यसाधवः ॥ १७ ॥
स्तुवन्त्यमित्रान् सुहृदं प्रतिक्षिपन्त्यवेक्षितुं भर्त्तुरगाधमाशयम् ।
बहून् विवादानिव कुर्वते मिथो न जातु भिन्दन्ति रहस्थिति खलाः ॥ १८ ॥
इदं ह्युपादेयमिदं तु हेयमित्युभे विविञ्चन् निजयैव मेधया ।
खलान् निगृह्णीप्व तदुक्तिवागुरागृहीतवन्मुग्धवदाचरन् बहिः ॥ १९ ॥
जना जिहासन्ति नृपालमूष्मलं तिरश्चिकीर्षन्ति मृदुन्निसर्गतः ।
अतोऽप्रमत्तस्त्वमनुष्णशीतलो भव प्रजानां शरदीव भास्करः ॥ २० ॥
अलोलुभानात्मविदो जितस्मयान् परीक्षितांश्च व्यसनेषु भूयसा ।
महाकुलीनान् महतो बहुश्रुतान् गृहाण मन्त्रेष्वखिलेषु मन्त्रिणः ॥ २१ ॥
प्रसादकोषैर्भवति क्षमापतेरतिप्रवृत्तरधरोत्तरं जगत् ।
अतः प्रवर्त्तस्व जनष्वतन्द्रितो विचारधाराविशदेन चेतसा ॥ २२ ॥
बहुश्रुतो न त्वमिवापरोऽधुना न दीर्घदर्शी न च मन्त्रयोगवित् ।
प्रशासनीयस्तदपि स्वयं भवान् प्रशासितारस्तव सन्तु मन्त्रिणः ॥ २३ ॥
अजातशत्रोरखिलार्थवेदिनः प्रजानुरागैकपदस्य धीमतः ।
तव प्रकृत्या गुरुवृद्धसेविनो मयोपदेश्यं किमिवात्र वर्त्तते ॥ २४ ॥
तथापि किंञ्चिद् दिगियं प्रदर्शिता श्रुता बहुभ्यो बहुधार्चया मया ।
परस्तु भावो मम तात ! वर्त्तते कुरुष्व तं चेतसि मा स्म विस्मरः ॥ २५ ॥
निजावतंसप्रसवोद्भवे कुले न्यधायि लक्ष्मीरियतीयमीदृशी ।
महेश्वरेणेति विदन्न जातुचिद् ममत्वमस्यां कुरु राज्यसम्पदि ॥ २६ ॥