यजाम देवान् जुहवाम पावके ददाम विशेष्वपि वा कथं कथम् ।
शिवस्वमादाय भुवीति चिन्तयन् शिवं समाराधय सर्वकर्मभिः ॥ २७ ॥
शिवं यजाग्नौ शिवमर्च भास्करे शिवं स्मरान्तः शिवमेव कीर्त्तय ।
शिवं द्विजेषु प्रतिपूजयानिशं शिवैकनिष्ठा भव तात ! सर्वथा ॥ २८ ॥
शिवात् परं नास्ति यथा तथैव नः शिवोऽपि नान्यो मधुरेश्वरादिति ।
सुनिश्चितालम्बितसुन्दरेश्वरः मुखं महीं पालय शाश्वतीः समाः ॥ २९ ॥
इति क्षितीशः प्रतिबोधयन् सुतं प्रयुज्य चास्मिन् प्रणते जयाशिषः ।
समाः सहस्राणि षडात्मना धृतां वरं स गुर्वीमवतार्य निर्ववौ ॥ ३० ॥
ततः स योगेन तनुं प्रजेश्वरो विसृज्य नाड्या किल मूर्धलग्नया ।
अतीत्य मायाभुवनानि सर्वतो जगाम शुद्धेऽध्वनि धाम शाश्वतम् ॥ ३१ ॥
उदक्रमीदेष यदा तदा प्रभृत्युपेत्य विज्ञानकलाग्रगण्यताम् ।
अभूत् सहायः करणीयपञ्चकेऽप्यनन्तरुद्रस्य धिया विशुद्धया ॥ ३२ ॥
विदन्ननित्यं जगदेव जन्मवद् विदन्नपि श्लाध्यतरां गतिं पितुः ।
मनोऽभितप्तं मलयध्वजो नृपः शशाक न स्थापयितुं वशे वशी ॥ ३३ ॥
कथञ्चिदालम्ब्य निजां स धीरतां गुरोरशेषा निरवर्तयत् क्रियाः ।
तथाविधानां तनयाश्चरन्ति यत् तदर्हणं केवलमात्मभूतये ॥ ३४ ॥
पुरोधसा सिन्धुपिबेन योगिना स मन्त्रिवृद्धैः सखिभिश्च बन्धुभिः ।
शुभे मुहूर्ते धुरि सुन्दरेशितुः सितेन फाले भासतेन लाञ्छितः ॥ ३५ ॥
स्वतश्च्युतं लिङ्गशिरस्पदात् सुमं पुरः म्फुलिङ्गानपि दीपनिस्सृतान् ।
प्रशस्यमानं शकुनं महर्षिभिः प्रणम्य मूर्ध्ना जगृहे महीपतिः ।। ३६ ।।
प्रदक्षिणीकृत्य पुरं पुरन्ध्रिभिः प्रवर्त्तितारात्रिकमङ्गलो नृपः ।
प्रविश्य राज्ञो भवनं परिष्कृतं द्विजान् प्रभूतैर्द्रविणैरतोषयत् ॥ ३७॥
सुभद्रपीठे सचिवैर्निवेशितः सभाजयामास नृपोऽनजीविन्..
यथोचितं वाहनभूषणाम्बरैः कटाक्षमन्दम्मितभाषितैरपि ॥ ३८ ॥
भुवं भुजे भूतदयां हृदन्तरे कथां पुरारेरपि कर्णयोर्द्वयोः ।
अधत्त भूषामनपायिनीमसौ परास्तु सोऽवत्त पुनर्न्यधत्त च ॥ ३९ ॥
● 'कथाः' इति खपुस्तके पाठः.