यशःप्रतापैर्हरितोऽस्य भूषिताः कुलं त्वर्नेनैव विभूषितं विभोः ।
अयं तु धृत्या दयया च भूषितः शिवे तु भक्त्या सकलं विभूषितम् ॥ ४० ॥
यशोभिरस्यावदुर्विसृत्वरैरपि द्विरेफद्विपकाककोकिलाः ।
स्वतोऽवदातानि तु पूर्वभूभृतां यशांसि सद्यो मलिनानि जज्ञिरे ॥ ४१ ॥
तदीयविश्राणनपोषितद्विजप्रवर्त्यमानाध्वरहव्यभोजिभिः ।
सुधाशवर्गैः परिपोषिताः कथं सुरद्रुमा बिभ्रति तेन तुल्यताम् ॥ ४२ ॥
तदीयदानोदकपूरितोऽर्णवस्ततो निपीयाम्बु दिशन्ति वारिदाः ।
तदम्बुपुष्टौषधिवल्लभः शशीत्यदः प्रसादादखिलस्य दातृता ॥ ४३ ॥
समृद्धिमद्भिर्वरया समृद्धया द्विजातिभिस्तद्विषये निवासिभिः ।
धृता कथञ्चित् तदनुग्रहेच्छया तदीयदानेष्वपि सम्प्रदानता ॥ ४४ ॥
न कोऽपि तस्यातिचचार राष्ट्रगः स यत्र दण्डं विनिपातयेन्नृपः ।
नचापि दण्ड्यः स्वयमात्मनोऽभवन्निवृत्तिशीलैः करणैनिसर्गतः ॥ ४५ ॥
विनेतरि स्वामिनि वीतकल्मपे विनिन्यरे तद्विषये प्रजाः स्वतः ।
तपोधने द्वन्द्वजयिन्यवस्थिते तदाश्रमस्था इव हिंस्रजन्तवः ।। ४६ ।।
विचक्षणेऽस्मिन् व्यसनान्यपोहितुं तटस्थवृत्ती सरले हितैषिणि ।
अपि प्रजाः स्वान् कलहान् गृहेगृहे निचिक्षिपुर्न्यासमिवाविशङ्किताः ॥ ४७ ॥
अकृष्टपच्चैः कलभैरलंकृता न वृष्टिमप्यस्य चकाङ्क्ष मंदिनी |
स्मरन् हविः स्वीक्रियमाणमध्वरे ववर्ष कालेषु तथापि वासवः ॥ ४८ ॥
अनिच्छतान्तःकरणेन निर्गमं विना शिवाराधनमन्यकर्मसु ।
स्वराज्यतन्त्रं सकलं च केवलेश्चकार बाह्यैः करणैर्महीपतिः ।। ४९ ।।
धरा समस्ता द्विजदेवसात्कृता दिवं द्विषद्भ्योऽपि ददौ सहस्रशः
अपि स्वमात्मानमदत्त शम्भवे किमप्यदेयं ददृशेऽस्य न प्रभोः ॥ ५० ॥
अनुम्मरन्नक्षरमक्षरं गुरोः स पार्थिवेन्द्रश्चरौपदेशिकम् |
अवाललम्बे भृशमम्बिकापतेः पदं समस्तामरसम्पदां पदम् ॥ ५१ ॥
तपांसि तेषे युयुजं मनो दृढं ददावियाजाधिजगे जुहाव च ।
नृपो निशश्वास मिमेष चान्ततः शिवं यजामीति धियैव नान्यथा ॥ ५२ ॥
• अवददुः अवदाता बभूवुः