प्रपञ्च सर्गस्थितिभङ्गहेतुतापरम्पराविश्रमभूमिमादिमाम् ।
हरीन्द्रवेधोहरमातरं शिवां विशिष्य वव्रे शरणं जनेश्वरः ॥ ५३ ॥
मृगाङ्कचूडामणिमीनलोचनं दयामयं दर्शितसुन्दरस्मितम् ।
उदारभूषाशतमुत्पलाङ्कितं वपुस्तदेवास्य मनस्यवर्त्तत ॥ ५४ ॥
जगत् समस्तं स जडाजडात्मकं ददर्श देवो निमिषन्मिषन्नपि ।
उपात्तनीलोत्पलमुन्नतस्तनं हसन्मुखं हारकिरीटभूषितम् ॥ ५५ ॥
निमेषनिश्वासवद्प्रयत्नतः स राज्यतन्त्रं सकलं च वर्त्तयन् ।
बभूव वाचा मनसापि कर्मणा शिवैकसंस्थो मलयध्वजो नृपः ॥ ५६ ॥
अदृश्यमश्राव्यमचिन्त्यमद्भुतं निरञ्जनं नित्यमनुश्रवाश्रवम् ।
अहंग्रहेणान्तरचिन्तयन्नृपः पराकृतद्वैतकथं परं महः ॥ ५७ ॥
परस्परेणानुपमर्दितं भजन् त्रिवर्गमित्थं समयं विभज्य सः ।
| कदाचिदन्तःपुरमास्थितो नृपः प्रचक्रमे काञ्चनमालया कथाम् ॥ ५८ ॥
कुलं किलैतद् विपुलं सुधानिधेः प्रसक्तविच्छेदमिवान्तरा मया ।
अतः कथं स्याच्छिवदाससन्ततेरभङ्ग इत्यस्ति सचिन्तता मम ॥ ५९ ॥
न नः कुलेऽस्मिन् शिवदीक्षयामले सुतान्निवापः पितृभिर्जिवृक्षितः ।
महन्महेशानुचरार्पणवतं तथापि मा लोपि मयति चिन्त्यते । ६० ।।
इदं हि मर्त्यामृतमित्युदीरितं प्रजायते यन्मनुजः प्रजामनु ।
अतः प्रसाध्यैव किलापरामृतं परामृतायोपनमेदिति श्रुतिः ॥ ६१ ॥
शिवार्पिताशेषभरा निराशिषः शिवार्चनामात्रपराधिकारिणः ।
कथं नु याचेमहि लोकमातरं कथं न याचेमहि वा कुलक्षये ॥ ६२ ॥
इति स्वतोऽनध्यवसायमुद्रितं पतिं विषीदन्तमियं पतिव्रता ।
जगाद वाक्यैर्हृदयानुरञ्जिभिर्जगत्तपस्यापरिपाकजन्मभिः ॥ ६३ ॥
भवान् प्रमाणं विशये विपश्चितां भवन्तमस्मिन्ननुशास्तु परः ।
विवेक्तुमत्रार्हति मीनलोचना तथाविधः कोऽप्यथ वा तदाश्रित ॥ ६४ ॥
अनावृतज्योतिषि तेजसां निघावनागतातीतभवद्विवेचिनि ।
तदत्र तिष्ठेमेहि कुम्भसम्भवे स खल्विहामुत्र च नः प्रशासिता ॥ ६५ ॥
१. 'प्रजामनु प्रजायते, तदु ते मर्त्त्यामृतम्' यजुः. २. 'प्रकाशनस्थेयाख्ययोश्च' (१-३-
२३) इाते स्थेयाख्यायां तड्.