आबाल्यादतिथिषु मुक्तहस्त एषः क्ष्मापालः किल मलयध्वजः प्रकृत्या |
तज्ज्ञानन्नपि निखिलं निबद्ध्य मुष्टिं दीक्षासु क्षणमपि नासितुं शशाक ॥ ३४ ॥
अध्वर्यौ भगवति तत्र कुम्भजन्मन्यायज्ञं धरणिपतित्वमश्नुवाने |
दुर्भिक्षं शिथिलमजायत द्विजानामाषाढा जिनतृणमुष्टिविष्टरेषु ॥ ३५ ॥
नीवारान् वपत कुशान् प्रवर्धयध्वं सिञ्चध्व खदिरपलाश बिल्वपोतान् ।
सद्यः सञ्चिनुत मृदूनि वल्कलानीत्यादिक्षन् नृपपुरुषानगस्त्यशिष्याः ॥ ३६ ॥
तस्मिन्नप्यददति पार्थिवे निषेधाद् यद् भुक्तं वसितमुपार्जितं च विप्रैः ।
दातारः स्म इति कृताग्रहाः समस्ता. शक्ताः किं शततममंशमत्र दातुम् ॥ ३७ ।
भुञ्जानानपरिमितान् बहून् पदार्थान् भूदेवानाधिसवनं निररीक्ष्य देवाः ।
भागं नः ऋतुषु विधाय विप्रलेभे पापीयान् विधिरिति मन्त्रयाम्बभूवुः ॥ ३८ ॥
तस्याग्रे धरणिभुजः क्रियान्तराळेष्वातेनुः स्वयमृषयो बहून् विवादान् ।
न्यायानुश्रवपदसाङ्ख्ययोगतन्त्रप्रस्थानप्रवचनदेशिका महान्तः ॥ ३९ ॥
यद्यात्यन्तिकसुखदुःखहानिरूपं कैवल्यं कथमशपद् भवानहल्याम् ।
तादृक्षामुपलदशां श्रयेति कोपादित्यूचुः कतिचन गौतमं मुर्नान्द्राः ॥ ४० ॥
कं दोषं कथयत सम्प्रसक्तदुःखव्यावृत्तिं फलमुपगच्छतां पुरो नः ।
अज्ञानक्षतिरुपले तवापि किं नेत्याचख्युः प्रतिपदभक्षपादशिष्याः ॥ ४१ ॥
अज्ञानाद्यदि परिकल्पितं जगत् स्यादज्ञानां प्रथमगणेन ईश्वरः स्यात् ।
निस्सीमा तव हि मतेऽस्य मूढतेति व्यासं प्रत्यकृषत केऽपि पूर्वपक्षम् ॥ ४२ ॥
अज्ञानं प्रकृतिमपेक्ष्य विश्वमेतत् सर्वज्ञे सृजति भवेऽपि यत् त्वयोक्तम् ।
अज्ञानं तदिदमनङ्कुशं तवैवेत्याचख्युः सदसि तु बादरायणीयाः ॥ ४३ ॥
जातिश्चेद् भवति पदेषु साधुभावो भाषायां श्रुतिषु च स द्विधा कथं स्यात् ।
गेहे गौर्वनभुवि गर्दभः किमु स्यादित्युच्चैरपजहसुः परे पदज्ञान् ॥ ४४ ॥
अन्येऽन्ये श्रुतिषु जगत्सु चापि शब्दास्तद्भेदं निपुणमजानतां कृते वः ।
अस्माभिः स्फुटमनुशिष्टमात्तमौना वर्त्तध्वं पदपदवी दवीयसी वः ॥ ४५ ॥
अस्मद्व्ध्याकरणगृहीतशक्ति योगानस्मासु प्रथममिमान् प्रयुज्य शब्दान् ।
युक्तादीयत गुरुदक्षिणा किलेति प्रत्यूचुः प्रथमविपश्चितो विपक्षान् ॥ ४६ ॥