पृष्ठम्:शिवलीलार्णवः.djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
षष्टः सर्गः । .


हिंसातो यदि दुरितं ऋतुष्वपि स्यात् पुण्यं किं न भवति पारदारिकाणाम् ।
उत्सन्नं.किल कुलमुद्धरन्त्यमी (ति व्याजदु: ?) कपिलमते कळङ्कमेके ॥ ४७ ॥
शास्त्रं चेत् किमपि तथास्ति साधयामो दुष्कृत्यैरपि सुकृतानि कात्र भीतिः ।
यूयं देवरवरणे यथा गृणीतेत्याहुः स्म प्रतिवचनानि तत्त्वनिष्ठाः ॥ ४८ ॥
योगाख्यं वदसि यमङ्गिनं समाधिं तं ब्रूषे ननु कथमङ्गमष्टमं च ।
अङ्गाङ्गिव्यैतिकरदुस्स्थितं मतं ते को गृह्णात्विति जगदुः परे फणीन्द्रम् ॥ ४९ ॥
सामान्यं किमिह क इप्यते विशेषः को योगः क इव समाधिरित्यबुद्ध्वा ।
अर्वाचां व्यवहरतामयं प्रलापः साधीयानिति जहसुः पतञ्जलीयाः ॥ ५० ॥
आयास्यन्त्यनुपदमत्र हव्यहेतोर्नन्वस्मिन् महति मखे सुराः समस्ताः ।
तान् सर्वानपलपितास्यहो कथं वेत्याचख्युः कतिचन जैमिनिं मुनीन्द्राः ॥ ५१ ॥
ये ह्युच्चावचमवजानते प्रपञ्चं मिथ्येति त्रिभुवनदेशिका महान्तः ।
तच्शिष्या वयमपि शक्तितो वदामेत्याहुस्तान् प्रति चतुरास्तु पूर्वतन्त्रे ॥ ५२ ॥
तत्रेत्थं द्विजसदसि प्रवृत्तजल्पे स्थेयत्वं स्वयमवलम्ब्य भाषमाणः ।
दीक्षाहानुपसदहानपि व्यतीतः सौत्येऽहन्यवतरति स्म पार्थिवेन्द्रः ॥ ५३ ॥
ये षट् त्रिः स्वदिरपलाशबिल्वरूपा यौ चोदुम्बरतरुजौ सराज्जुदालौ ।
ते यूपा अवतरतां दिवः सुराणां निश्रेण्यो भुवि निहिता इव व्यराजन् ॥ ५४ ॥
अग्निष्ठे समुपनिबद्ध्य राज्जुदाले सन्नद्धं कुशरशनागुणेन गाढम् ।
सम्प्रौक्षन् हयमभितो महर्त्त्विजस्तं "सिद्धार्थैरपि विधिगौरवेण मन्त्रैः ॥ ५५ ॥
आलब्धे शमितृभिराश्वमेधिकेऽश्वे चन्द्राख्यं कलशभवः प्रगृह्य मेदः ।
शाखायां क्षणमुपसाद्य वेतसस्य सौवाग्रादखिलमवद्यति स्म होतुम् ॥ ५६ ॥
आश्राव्य स्वयमृषिराश्वलायिनीये याज्यान्ते हविरजुहोत् स्रुचो मुखेन ।
यज्ञेशे भगवति भावनाप्रकर्षाद् भूपालो जगदजुहोत् स तन्मुखेन ॥ ५७ ॥
अप्यन्तस्तिमिरहरं शरीरभाजामप्राप्यं जनुषि पुरातपोविहीनैः ।
सौरभ्यं हविषि हुते समुज्जिहानं व्याजिघ्रन् सदसि विपश्चितः महान्तः ॥ ५८ ॥



१. 'मी इत्याचख्युः' इत्येव महाकवेः पाठः स्यात् । तत्र प्रकृतिभावप्राप्तिमजानता तु केन-
चिन्नूनमयमपशब्दपाठः कल्पितः । २ उपसदहान् उपसदिष्टिदिनानि ३. सुत्याया इदं
सौयम्. ४. राज्जुदाल: श्लेष्मातकः ५. शमितृभिः पशुविशासितृभिः ३. याज्या होममन्त्र-
विशेषः



  • 'सिद्धान्तै' इति खपुस्तके पाठः,