बिभ्यत्सु श्रुतिमतिलङ्घय सम्प्रदातुं हव्यं तत्तदभिमतं द्विजर्षभेषु ।
पौरोडाशिकचरुपाशुकादिभागान् स्वीचक्रुः स्वयमपमित्य देववर्गाः ॥ ५९ ॥
चन्द्रे तु ज्वलनहुते हयस्य तस्मिन्नासन् ये सलिलमुचस्तदयिधूमात् ।
वर्षन्ति स्वयमधुनापि मौक्तिकानां व्याजात् ते तमिव कणीकृतं वमन्तः ॥ ६० ।।
आगाता किल यजमानकामनानामुद्गीथावयवसमष्टुपासनज्ञः ।
उद्गानं व्यतनुत जैमिनिस्तदानीमाकाङ्क्षन्नवतरणं जगजनन्याः ॥ ६१ ॥
प्रत्यक्षं विबुधगणेष्वदत्सु हव्यं साकूतस्मितमवलोकितः सदस्यैः ।
सिद्धान्तं स दिविषदामविग्रहत्वं व्याचख्यौ कलहविपर्ययं महर्षिः ।। ६२ ।।
देया भूरिह खलु दक्षिणेति शास्त्रं सर्वा भूरपि चतुरर्णवीपरीता ।
दत्ता नः क्षितिरमण ! त्वयेति हृष्टा आशीर्भिः सदसि तमृत्विजोऽभ्यनन्दन् ॥ ६३ ॥
निष्क्रीय द्विगुणधनैः पुनर्धरित्रीं रक्षायामनधिकृतैर्द्विजैर्वितीर्णाम् ।
भूयोऽपि द्विजकुलसाच्चकार सर्वा स्वां लक्ष्मीमपि मलयध्वजो नृपालः ॥ ६४ ॥
राजर्षेरवभृथकर्म वाजिमेधे स्नातारः सहमुनयो वसिष्ठमुख्याः ।
तीर्थंं तु त्रिशिखभवा सरोजिनी सेत्येकैकं त्रिभुवनपावनं तदासीत् ॥ ६५॥
तौ मित्रावरुणसुतौ मिथो विमृश्य ब्रह्मर्षीं विदितसमस्तवेदितव्यौ ।
अम्बाया अवतरणाय काञ्चिदिष्टिं पुत्रीयां त्वरितमथोपचक्रमाते ।। ६६ ।।
सङ्कल्पं व्यघित नृपः स यावदिष्टौ तावद् भुव्यवतरितुं शिवापि चक्रे ।
वैतानादुदयमुपेहि पावकादित्यादिष्टा स्वयममृतांशुशेखरेण ॥ ६७ ॥
सम्प्राप्तुं त्रिभुवनमातरं कुमारीं सन्नद्धो ननु यजमान एव पत्न्या ।
इत्यग्नीदे॑वददुपांशु शासितारं पत्नीसन्नहनविधौ प्रचोद्यमानः ॥ ६८ ॥
प्रासीद्ज्जगदखिलं प्रदक्षिणार्चिः स्वीचक्रे हविरनलः सुवर्णवर्णः ।
उत्तस्थौ नवलवलीविपाकपाण्डुर्धूमोऽपि स्फुरदरविन्दगन्धसान्द्रः ॥ ६९ ॥
तद् दिव्यं त्रिभुवनधाम धाम शैवं होतव्ये हविषि विभावयन् महर्षिः ।
उद्बोध्य क्षितिपमुदङ्मुखः स तिष्ठन् वैताने ज्वलति जुहाव हव्यवाहे ॥ ७० ॥
१. समुद्रशुक्तिष्विति शेषः. २. अविग्रहत्वं नाम न शरीररहितत्वम् । किन्तु कलहर-
हितत्वमिति स्वसिद्धान्ताभिप्रायं वर्णयामासेत्यर्थः ३- मित्रावरुणसुतावगस्त्यवसिष्ठौ. ४. स-
नद्धो बद्ध उद्युक्तश्च ५. अवददिति । वैधे पत्नीसन्नहने प्रस्तोतव्ये यजमानसन्नहनं तद्विपरीतं
पत्नथा कृतमिति सन्नद्धशब्दश्लेषालम्बनमग्नीधः सोपहासं वचनमिदम् .