आज्याहुत्यभिपतनप्रवर्धमानादग्नेस्तत्क्षणमुदियाय कापि कन्या ।
उन्मीलत्कुवलयदामकोमल श्रीर्लावण्यामृतलहरीविवर्त्तमूर्तिः ॥ ७१ ॥
चूडासङ्घटितसुवर्णपद्मदामव्यामिश्रग्रथितविलम्बिमौक्तिकौघा
प्रालम्बालकनिकरान्तराललक्ष्यव्यावल्गच्छफरविलोललोचनश्रीः ॥ ७२ ॥
कर्णाभ्यां मदनकराङ्गुलीयकाभं ताटङ्कं मणिखचितं विभूषयन्ती ।
अव्याजस्मितभणितान्तरालदृश्यप्रत्यग्रप्रसृमरदन्तकुन्दपङ्किः ॥ ७३ ॥
वक्रेन्दुव्यतिषजदेणभीतिहेतोर्वैयाघ्रं नखमाधकन्धरं दधाना ।
त्रातुं त्रीनिव तनयान् विधीशविष्णूंस्त्रीन् वक्षोरुहवलयान् समुद्रुहन्ती ॥ ७४ ॥
अभ्यग्रोन्मिषदमर द्रुपल्लवाभे कुर्वाणा कुवलयकन्दुकं कराग्रे ।
सौवर्णाम्बरविलसन्नितम्बबिम्बव्यालम्बिस्फुटमणिमेखलाकलापा ॥ ७५ ॥
अम्बाम्बेत्यमृत *रसं गिरा किरन्ती मञ्जीरक्कणितमनोहर चरन्ती ।
सा बाला स्वयमभजन्नृपालपत्न्याः पर्यङ्कं श्रुतिशिखरैः कृताभ्यसूयम् (कुलकम्) ॥ ७६ ॥
आलिङ्गन्त्यसकृदनुक्षणं स्पृशन्ती चुम्बन्ती मुखकमलं मुहुर्मुहुश्च ।
पश्यन्ती विकसितपक्ष्मभिः कटाक्षैस्तां बालामभजत निर्वृतिं न माता ॥ ७७ ॥
आनन्दत्रुटितविशर्णिकञ्चुकान्ताद् वक्षोजादथ मलयध्वज प्रियायाः ।
अन्वस्यन्दत मधुरं पयः प्रभूतं बिभ्रत्यास्त्रिभुवनमातरं कुमारीम् ॥ ७८ ॥
प्रेयस्या सविधमुपेत्य दीयमानामुलत्य स्वयमुपगूहितुं पतन्तीम् ।
कन्यां ताममृतमयीमिवाददानः कैवल्यं धरणिपतिस्तृणाय मेने ॥ ७९ ॥
मार्जन्तावसकृदुपर्युपर्युदञ्चद्वाष्पाम्भःप्रकरतरङ्गितानपाङ्गान् ।
अव्याजस्मितमधुराक्षरं कुमार्या द्रष्टुं तन्मुखकमलं न शेकतुस्तौ ॥ ८० ॥
न स्मर्तुं प्रमथपतिं न कर्मशेषं निर्वोढुं न च महतो मुनीन् प्रणन्तुम् ।
नान्योन्यं वदनमवेक्ष्य नन्दितुं वा दम्पत्योश्चतुरतया तयोर्बभूवे ॥ ८१ ॥
पश्यन्तावुरसि कुचाङ्कुरत्रयं तौ बालायाः किमपि समाकुलौ “प्ताम् ।
पर्जन्यस्तनितगभीरमन्द्रघोषा वागेका नभसि तदा समुज्जजृम्भे ॥ ८२ ॥
तटातकां नाम तवात्मजामिमां पतिर्भविष्यन्नवलोकते यदा ।
तदा तृतीयं कुचमण्डलं त्विदं निमग्नमन्तर्नियतं भवेदिति ॥ ८३ ॥
- ' रसां गिरम्' इति खपुस्तके पाठः,