श्रुत्वा सुधारसकिरं गिरमद्भुतां तां
निर्वर्त्त्य सर्वधनदक्षिणमध्वरं च ।
पाणौ दिशन् कुलगुरोः परदेवतां तां
तत्पादयुग्ममुपसञ्जगृहे सदारः ॥ ८४ ॥
हस्ते गृहीतां कलशोद्भवस्तामध्यात्मविद्यां मुनिमण्डलाय ।
आनन्दबाष्पैः पुलकाङ्कुरैरप्यनक्षरं केवलमाचचक्षे ॥ ८५ ॥
प्रशिथिलकलुषं प्रशान्तमोहं प्रमदतरङ्गपरम्पराधिरूढम् ।
जगदखिलमभूदभूतपूर्वं मनुजकुलावतरे जगज्जनन्याः ॥ ८६ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे षष्ठः सर्गः ।
अथ सप्तमः सर्गः ।
अथ कलशभवः शिवस्य मेधाविभवविवर्त्तमयीमिमां कुमारीम् ।
मधु मधुरमपाययत् स मेधासमुपजनाय सकाञ्चनं सगव्यम् ॥ १ ॥
उचितमुपनिवेशिताङ्कदेशे सुकृतिनि काञ्चनमालया सुता सा |
अपरिचितचरीं प्रवृत्तिमाद्यामलभत मातृकुचामृतोपयोगे ॥ २ ॥
समजनेि सुखिता कुमारिका सा सकृदुपधाय मुखं स्तने जनन्याः ।
वदनसरसिजं दृशा पिबन्ती नतु दुहितुर्जननी जगाम तृप्तिम् ॥ ३ ॥
अकृतकवचसा नभोविभागात् स्वयमुदितेन कृतं तटातकेति ।
क्षितिपतिरतनिष्ट नाम तस्यास्त्रिभुवनकर्णरसायनाक्षरं तत् ॥ ४ ॥
कनकरजतशृङ्खलाबबद्धे मणिशयनीयतले महार्हतल्पे |
मृदुनि समुपवेश्य तामगायन्नवनिपतेरवरोधगास्तरुण्यः ।। ५ ।।
प्रचलति यमपेक्ष्य भारतेऽस्मिन् सकलमिदं शुभकर्म भूविभागे ।
अजनि महिभृतस्ततः किलेयं परमहिमालयतो यशोवदातात् ॥ ६ ॥
इयममृतमयी शरीरभाजां बहिरबहिर्भवतापतापितानाम् ।
कलमधुरविराविणी च वाणी करकमलोपगृहीतवल्लकीयम् ॥ ७ ॥
१. महिभृतो भूपतेः पर्वताच्च. २. परमहिमालयतः परस्य महिम्नः परमस्य हिमस्य चालयात्.