पृष्ठम्:शिवलीलार्णवः.djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
सप्तमः सर्गः



विहरसि यदि देवि ! जाग्रतीत्थं जगदखिलं कुशलं प्रकाशते नः |
निमिषसि यदि निष्क्रिया भवामः प्रलय इवैष निमज्जति प्रपञ्चः ॥ ८ ॥
इति शिशुजनलालितानि गीतान्यवनिपतेरवरोधसुन्दरीणाम् ।
अनुजगदुरिवामरा निगूढाः प्रतिनिनदैः परमात्मभावदृष्ट्या ॥ ९ ॥
समधृत वलयानि सा † कुमारग्रहपरिहारकृते महीमयानि ।
परिचयमिव कुर्वती भुजेन क्षितिवलयं सकलं सुखेन वोढुम् ॥ १० ॥
विहृतिषु पितरौ सपात्रहस्ताप्यतनुत सा भुजिना विनैव तृप्तौ ।
कथमिव भवति क्षुधा तृषा वा सकृदनुसन्दधतां तथाविधां ताम् ॥ ११ ॥
वियति विधुकलां प्रदर्श्यमानां निभृतमवेक्ष्य नितान्तकौतुकेन ।
शिरसि कुसुममेतदर्पयेति प्रतिमुहुरालपति स्म बालिका सा ॥ १२ ॥
व्यजयत पदकिङ्किणीरवोऽस्या मणिभवनेषु ततस्ततश्चरन्त्याः ।
पदमिदमभितो विचिन्वतीनामुपनिषदामिव हर्षजः प्रणादः ॥ १३ ॥
अवददियमनन्विता इवार्थैरनुपहिता इव याः कथाः सखीभिः ।
कथमपि परमोपदेशदृष्ट्या जगृहुरिमां मुनयः सुराश्च गूढाः ॥ १४ ॥
कति कति कृतिनः कुङ्क्षपोता विहरणसाधन तामवापुरस्याः ।
तरुषु पशुषु वा ध्रुवं जनिष्ये तदहमहो समयः पुनर्व्यतीतः ॥ १५ ॥
ऋतुरवनिपतेरयं स तस्या यदुपजहार विहारसाधनानि ।
स च परमजपो यदन्ववादीत् कलमधुराणि मुहुस्तदीरितानि ॥ १६ ॥
भवनविनिहितेषु भक्ष्यभोज्येष्वहरत सा कपटेन यत् कुमारी ।
नवनवमपरिक्षयं च भूत्वा प्रकटमजायत सूक्ष्मदर्शिनां तत् ॥ १७ ॥
कतिचन किल कन्तुका महान्तो गुणसमुदायमया निसर्गशुद्धाः ।
अजनिषत कुतूहलाय देव्या निगमपथे चरतां निदर्शनाय ॥ १८ ॥
श्रुतिषु निहितदृष्टयोऽन्यविद्या भगवति शूलिनि ताः स चाधिकौ ।
क्वचिदपि किल कन्तुके तु सापीत्यजनि मनागपि योगिनामसूया ॥ १९ ॥
कतिपयदिवसैः कथासु गीतेष्वजनि पटुर्घुटिकासु कन्तुकेषु ।
इति रहसि कथा बभूव पित्रोर्दुहितरि विश्वविधानमातृकायाम् ॥ २० ॥
+ ‘कुमारी’ इति खपुस्तके पाठः

  • 'तदयम्' इति खपुस्तके पाठ..